________________
पद्मपुराणम् ।
द्वासप्ततितमं पर्व । सुनातोऽलंकृतः कांतः प्रयतो भावपूरितः । पुनः शांतिजिनेन्द्रस्य विवेश भवनं नृपः ॥ १७ ॥ कृत्वा तत्र परां पूजामर्हतां स्तुतितत्परः । चिरं नृभिः प्रणामं च भेजे भोजनमंडपम् ॥ १८ ॥ चतुर्विधोत्तमाहारविधिं निर्माय पार्थिवः । विद्यापरीक्षणं कर्तुमार क्रीडन भूमिकाम् ।। १९ ।। अनेकरूपनिर्माणं जनितं तेन विद्यया । विविधं चाद्भुतं कर्म विद्याधरजनातिगम् ॥ २० ॥ तत्कराहत भूकंप समाघूर्णितविग्रहम् । जातं परबलं भीतं जगौ निधनशंकितम् ॥ २१ ॥ ततस्तं सचिवाः प्रोचुः कृतविद्यापरीक्षणम् । अधुना नाथ मुक्त्वा त्वां नास्ति राघवसूदनः २२ भवतो नापरः कश्चित्पद्मस्य क्रोधसंगिनः । इष्वासस्य ( 2 ) पुरः स्थातुं समर्थः समराजिरे ॥ २३ ॥ विद्ययाथ महार्धिस्थो विकृत्य परमं बलम् । संप्रति प्रमदोद्यानं प्रतस्थे प्रतिचक्रभृत् ॥ २४ ॥ सचिवैरावृतो धीरैः सुरैराखंडलो यथा । अप्रधृष्यः समागच्छन् स रेजे भास्करोपमः ॥ २५ ॥ तमालोक्य समायांतं विद्याधर्यो बभाबिरे । पश्य पश्य शुभे सीते रावणस्य महाद्युतिम् ॥ २६ ॥ पुष्पकाग्रादयं श्रीमान् अवतीर्य महाबलः । नानाधातुविचित्रां गान्महीभृद्गहरादिव ॥ २७ ॥ गजेंद्र इव सक्षीचः सूर्यांशुपरितापितः । स्मरानलपरीतांगः पूर्णचन्द्रनिभाननः ॥ २८ ॥ पुष्पशोभा परिच्छन्नमुपगीतं षडंघ्रिभिः । विशति प्रमदोद्यानं दृष्टिरत्र निधीयताम् ॥ २९ ॥
Jain Education International
३४
For Private & Personal Use Only
www.jainelibrary.org