SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३३ द्वासप्ततितमं पर्व । पश्यैतकामवस्थां नो विहतां हतचेतसा । सौग्रीविणा विशंकेन शिशुना भवतः पुरः ॥ ४ ॥ श्रुत्वा तद्वचनं तासां समाश्वासनतत्परः । त्रिकूटाधिपतिः क्रुद्धो जगाद विमलेक्षणः ॥ ५ ॥ मृत्युपाशेन बद्धोऽसौ ध्रुवं यदि विचेष्टते । देव्यो विमुच्यतां दुःखं भवत्यः प्रकृतिस्थिताः ॥ ६ ॥ कांताः ! कर्त्तास्मि सुग्रीवं निग्रीवं श्वो रणाजिरे । तमोमंडलकं तं च प्रभामंडलनामकम् ॥ ७ ॥ तयोस्तु कीदृशः कोपो भूमिगोचरकीटयोः । दुष्टविद्याधरान् सर्वान् निहंतास्मि न संशयः ॥ ८ ॥ भ्रूक्षेपमात्रकस्यापि दयिता मम शत्रवः । गम्याः किषु महारूपविद्यया स्युस्तथा न ते ॥ ९ ॥ एवं ताः सांख्य दयिता बुद्धया निहतशात्रवः । तस्थौ देहस्थितौ राजा निष्क्रम्य जिनसद्मनः ॥ नाना बाह्य कृतानंदश्चित्रनाट्यसमायुतः । जज्ञे स्नानविधिस्तस्य पुष्पायुधसमाकृतेः ॥ ११ ॥ राजतैः कलशैः कैश्वित्सं पूर्णशशिसन्निभैः । श्यामाभिः स्नाप्यते कांतिज्योत्स्नासंप्लावितात्मभिः॥ पद्मकांतिभिरन्याभिः संध्याभिरिव सादरम् | बालभास्वरसंकाशैः कलशैर्होट कात्मभिः ॥ १३ ॥ गरुत्ममणिनिर्माणैः कुंभैरन्याभिरुत्तमैः । स्त्रीभिः साक्षादिव श्रीभिः पद्मपत्रपुटैरिव ॥ १४ ॥ कैश्विद्वालातपच्छायैः कदलीगर्भपांडुभिः । अन्यैर्गधसमाकृष्टमधुव्रतदैवकैः ॥ १५ ॥ उद्वर्त्तनैः सुलीलाभिः स्त्रीभिरुद्वर्त्तितोऽभजत् । स्नानं नानामणिस्फीत प्रभाभाजि वरम्सने ||१६|| ३-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy