________________
पद्मपुराणम् ।
द्वासप्ततितम पर्व। ब्रूह्यद्य सर्वदैत्यानां करोमि किमु मारणम् । भवत्यप्रियचित्तानां किं वा स्वौकसामपि ॥९०॥ क्षुद्रविद्यात्तगर्वेषु नभस्वत्पथगामिषु । आदरो नैव मे कश्चिद्वराकेषु तृणेष्विव ॥ ९१ ॥
प्रणम्य विद्या समुपास्थिताऽसौ समाप्तयोगः परमद्युतिस्थः ।
दशाननो यावदुदारचेष्टः । प्रदक्षिणं शांतिगृहं करोति ॥ ९२ ॥ तावत्परित्यज्य मनोभिरामां । मंदोदरी खेदपरीतदेहाम् ॥
उत्पत्य खं पद्मसमागमेन । गतोऽगदोऽसौ रविवत्सुतेजाः ॥ ९३ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे पद्मायने बहुरूपविद्यासन्निधानाभिधानं नामैकसप्ततितम पर्व ।
अथ हासप्ततितमं पर्व । ततः स्त्रीणां सहस्राणि समस्तान्यस्य पादयोः । रुदंत्यः प्रणिपत्योचुः युगपचारुनिःस्वनम् ॥१॥ सर्वविद्याधराधीशे वर्तमाने त्वयि प्रभो । बालकेनांगदेनत्य वयमद्य खलीकृताः ॥२॥ त्वयि ध्यानमुपासीने परमे तेजसास्पदे । विद्याधरकखद्योतो विकारं सोपि संश्रितः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org