________________
पद्मपुराणम् ।
एकसप्ततितम पर्व । त्रायस्व नाथ किंत्वेतामवस्था मे न पश्यसि । किमन्य एव जातोऽसि नासि सः स्याद्दशानन ॥ अहो ते वीतरागत्वं निग्रेथानां समाश्रितम् । इदृशे संगते दुःखे किमनेन भविष्यति ॥ ७८ ॥ धिगस्तु तव वीर्येण किमपि ध्यानमीयुषः । यदस्य पापचेष्टस्य छिनत्सि न शिरोऽसिना ॥७९॥ चंद्रादित्यसमानेभ्यः पुरुषेभ्यः पराभवम् । नासि सोढाऽधुना कस्मात्सहसे क्षुद्रतोऽमुतः ॥८॥ लंकेश्वरस्तु संगाढध्यानसंगतमानसः । न किंचिदशृणोन्नापि पश्यतिस्म सुनिश्चयः ॥ ८१॥ अर्द्धपर्यकसंविष्टो दूरस्थापितमत्सरः । मंदरोरुगुहायातरत्नकूटमहाद्युतिः ॥ ८२॥ सर्वेन्द्रियक्रियामुक्तो विद्याराधनतत्परः । निष्कंपविग्रहो धीरः स ह्यासीत्पुस्तकायवत् ॥८३ ॥ विद्यां विचितयन्नेष मैथिलीमिव राघवः । जगाम मंदरस्याद्रेः स्थिरत्वेन समानताम् ॥ ८४ ॥ ततोऽथ गदतः स्पष्टं द्योतयंती दिशो दश । जयेति जनितालापा तस्य विद्या पुरः स्थिता ॥८५॥ जगौ च देव सिद्धाऽहं तवाज्ञाकरणोधता । नियोगो दीयतां नाथ साध्यः सकलविष्टो ॥८६॥ एकं चक्रधरं मुक्त्वा प्रतिकूलभवस्थितम् । वशीकरोमि ते लोकं भवदिच्छानुवर्तिनी ॥ ८७ ॥ करे च चक्ररत्नं च तवैवोत्तम वर्तते । पद्मलक्ष्मीधराधर्मे ग्रहणं किमिवापरैः ॥ ८८॥ मद्विधानां निसर्गोऽयं यन्न चक्रिणि शक्नुमः । किंचित्पराभवं कर्तुमन्यत्र नु किमुच्यते ॥८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org