________________
पद्मपुराणम् ।
त्रिसप्ततितम पर्व। ईशे तथापि को दोषः स्वयं वक्तुं त्वमर्हसि । कदाचित्ते मतिं कुर्यादुपेक्षणमसांप्रतम् ॥ ३१॥ इत्युदाहृतमाधाय निश्चितस्वांतधारिणी । परिवेपवती लक्ष्मीरिव संभ्रमवर्तिनी ॥ ३२ ॥ स्वच्छायतविचित्रेण पयःसादृश्यधारिणा । अंशुकेनावृता देवी गंतुं रावणमुद्यता ॥ ३३ ॥ मन्मथस्यांतिकं गंतुं तां प्रवृत्तां रतिं यथा । परिवर्गः समालोक्य तत्परत्वमुपागतः ॥ ३४ ॥ छत्रचामरधारीभिरंगनाभिः समंततः । आपूर्यत शचीवेन्द्रं व्रजंती प्रवराननाः ॥ ३५॥ श्वसंती प्रस्खलंती च किंचिच्छिथिलमेखला । प्रियकायरता नित्यमनुरागमहानदी ॥ ३६॥ आयांती तेन सा दृष्टा लीलावर्तेन चक्षुषा । स्पृशता कवचं मुख्यं शस्त्रजातं च सादरम् ॥३७॥ उक्ता मनोहरे हंसवधृललितगामिनि । रभसेन किमायांत्यास्तव देवि प्रयोजनम् ॥ ३८॥ हियते हृदयं कस्माद्दशवक्त्रस्य भामिनि । सन्निधानमिव स्वप्ने प्रस्तावपरिवर्जितम् ॥ ३९ ॥ ततो निर्मलसंपूर्णशशांकप्रतिमानना । संफुल्लांभोजनयना निसर्गोत्तमविभ्रमा ॥४०॥ मनोहरकटाक्षेषु विसर्जनविचक्षणा । मदनावासभूतांगा मधुरस्खलितस्वना ॥४१॥ दंताधरविचित्रोरुच्छायापिंजरविग्रहा । स्तनहेममहाकुंभभारसन्नमितोदरी ॥ ४२ ॥ स्खलद्वलित्रयात्यंतसुकुमाराऽतिसुंदरी । जगाद प्रणता नाथ प्रसादस्यातिभूमिका ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org