________________
४३९
पद्मपुराणम् ।
त्रयोविंशोत्तरशतं पर्व |
लूषितं कलुषं कर्म मन्यमानः सुसंमदः । सुवृत्तः स्वर्गमारोहत्सुरसंघसमावृतः ॥ १३८ ॥ स्वर्ग तेन तदा यातं भ्रातृस्नेहात्पुरातनात् । भामंडलचरो दृष्टः कुरौ संभाषितप्रियम् ।। १३९ ।। तत्रारुणाच्युते कल्पे सर्वकामगुणप्रदे | अमरीणां सहस्राणि रमयन्नीश्वरः स्थितः ॥ १४० ॥ दश सप्त च वर्षाणां सहस्राणि बलायुषः । चापानि षोडशोत्सेधः सानुजस्य प्रकीर्त्तितः ॥ १४१ ॥ ईदृक्षमवधार्येदमन्तरं पुण्यपापयोः । पापं दूरं परित्यज्य वरं पुण्यमुपार्जितम् || १४२ || पश्यत बलेन विभुना जिनेन्द्रवरशासने धृतिं प्राप्तेन । जन्मजरामरणमहारिपवो बलिनः पराजिताः पद्मेन ॥ १४३ ॥ स हि जन्मजरामरणव्युच्छेदान्नित्यपरमकैवल्यसुखम् ।
Jain Education International
अतिशय दुर्लभमनघं संप्राप्तो जिनवरप्रसादादतुलम् || १४४ ॥ मुनिदेवासुरवृषभैः स्तुतमहितनमस्कृतो निषूदितदोषः ।
प्रमदशतैरुपगीतो विद्याधरपुष्पवृष्टिभिर्दुर्लक्ष्यः || १४५ ।। आराध्य जैन समयं परमविधानेन पंचविंशत्यब्दान् । प्राप त्रिभुवनशिखरं सिद्धिपदं सर्वजीवनिकायललामम् ॥ १४६ ॥
For Private & Personal Use Only
www.jainelibrary.org