________________
पद्मपुराणम् ।
त्रयोविंशोत्तरशतं पर्व। भविष्यतः स्वकर्माभ्युदयौ रावणलक्ष्मणौ । तृतीयनरकादेत्य अनुपूर्वाच्च मंदरात् ॥ ११२ ॥ श्रृणु सीतेन्द्र निर्जित्य दुःखं नरकसंभवम् । नगयाँ विजयावत्यां मनुष्यत्वेन चाप्स्यते ।। ११३॥ गृहिण्यां रोहिणी नाम्न्यां सुनंदस्य कुटुम्बिनः । सम्यग्दृष्टेः प्रियौ पुत्रौ क्रमेणैतौ भविष्यतः११४ अर्हद्दासर्षिदासाख्यौ वेदितव्यौ च सद्गुणैः । अत्यन्तमहचेतस्कौ श्लाघनीयक्रियापरौ ॥११५॥ पंचेन्द्रियसुखं तत्र चिरं प्राप्य मनोहरम् । च्युत्वा भूयश्च तत्रैव जनिष्येते महाकुले ॥ ११६ ॥ सद्दानेन हरिक्षेत्रं प्राप्य च त्रिदिवं गतौ । प्रच्युतौ पुरि तत्रैव नृपपुत्रौ भविष्यतः ॥११७ ॥ ततः कुमारकीयोख्यो लक्ष्मीस्तु जननी तयोः । वीरौ कुमारकावेतौ जयकांतजयप्रभौ ॥११८॥ ततः परं तपः कृत्वा लान्तवं कल्पमाश्रितौ । विबुधोत्तमतां गत्वा भाक्ष्येते तद्भवं सुखम् ११९ स्वमत्र भरतक्षेत्रे च्युतः सन्नारणाच्युतात् । सर्वरत्नपतिः श्रीमान् चक्रवर्ती भविष्यसि ॥१२० ।। तौ च स्वर्गच्युतौ देवौ पुण्यनिस्यन्दतेजसा । इन्द्रांभोदरथाभिख्यौ तव पुत्रौ भविष्यतः ॥१२१॥ आसीत्प्रतिरिपुर्योऽसौ दशवक्त्रो महाबलः । येनेमे भारते वास्ये त्रयः खंडा वशीकृताः ॥१२२॥ न कामयेत्परस्य स्वीमकामामिति निश्चियः । अपि जीवितमत्याक्षीत्तत्सत्यमनुपालयन् ॥ १२३ ॥ सोऽयमिन्द्ररथाभिख्यो भूत्वा धर्मपरायणः । प्राप्य श्रेष्ठान् भवान् कांश्चितिर्यङ्नरकवर्जितान् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org