________________
४३६
पद्मपुराणम्
त्रयोविंशोत्तरशतं पर्व |
स्थाने स्थाने च घोषाद्यसन्निवेशानदर्शयत् । स्वभावार्पितरूपश्च प्राणमद्विनयी मुनीन् ॥ ९९ ॥ काले देशे च भावेन सतां गोचरमागताम् । पर्युपास्त यथान्यायं संमदी परिवर्गवान् ॥ १०० ॥ पुनश्चानुदकेऽरण्ये पर्युपासिष्ट संयतान् । अन्यांश्च भुवि संक्लिष्टान् साधून क्लिष्टसंयमान् ॥ १०१ ॥ तस्य सागरवाणिज्यसेवका मुक्तिभावने । दृष्टान्तत्वेन वक्तव्यास्तस्य धर्मानुरागिणः ॥ १०२ ॥ अन्यदोद्यानप्राप्तोऽसौ यथासुखमवस्थितः । शयने श्रीमान्मालिन्या पविना कालमाहृतः १०३ ततः साधुप्रदानोत्थपुण्यतो मेरुदक्षिणे । कुरौ जातस्त्रिपल्यायुर्दिव्यलक्षणभूषितः ॥ १०४ ॥ पात्रदानफलं तत्र महाविपुलतां गतम् । समं सुन्दरमालिन्या भुंक्तेऽसौ परमद्युतिः ।। १०५ ॥ पात्रभूतान्नदानाच्च शक्त्याढ्यास्तर्पयन्ति ये । ते भोगभूमिमासाद्य प्राप्नुवन्ति परं पदम् ||१०६ ॥ स्वर्गे भोग प्रभुंजन्ति भोगभूमेश्रयुता नराः । तत्रस्थानां स्वभावोऽयं दानैर्भोगस्य संपदः॥ १०७ ॥ दानतो भोगप्राप्तिश्च स्वर्गमोक्षैककारणम् । इति श्रुत्वा पुनः पृष्टो रावणो वालुकां गतः || १०८ || तथा नारायणो ज्ञातो लक्ष्मणोऽधोगतिं गतः । उत्थाय दुरितस्यान्ते नाथ कोऽनुभविष्यति १०९ प्रापत्स्यते गतिं कां वा दशाननचरोपमम् । को नु वाऽहं भविष्यामीत्येवमिच्छामि वेदितुम् ११० इति सोऽयं प्रभोः प्रश्नं कृत्वा विदितचेतसि । सर्वज्ञो वचनं प्राह भविष्यद्भवसंभवम् ॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org