________________
पद्मपुराणम्।
४३५
त्रयोविंशोत्तरशतं पर्व। अयोध्यायां कुलपतिर्वहुकोटिधनेश्वरः । मकरीदयिता (तः) कामभोगवांगसंज्ञकः ॥ ८६ ॥ अतिक्रान्तो बहुसुतैः पार्थिवोपमविभ्रमः । श्रुत्वा निर्वासितां सीतामिति चिन्तासमाश्रितः ।।८।। साऽत्यन्तसुकुमारांगा गुणैर्दिव्यैरलंकृताः । कान्तु प्राप्ता वनेऽवस्थामिति दुःखी ततोऽभवत् ८८ स्थिताहृदयश्चासौ वैराग्यं परमाश्रितः । द्युतिसंज्ञमुनेः पार्श्वे निष्क्रान्तो द्विष्टसंमृतिः ।। ८९ ॥ अशोकतिलकाभिख्यौ विनीतौ तस्य पुत्रको । निमित्तनं द्युतिं प्रष्टुं पितरं जातुचिद्गतौ ॥९० ॥ तत्रैव च तमालोक्य स्नेहाद्वैराग्यतोऽपि च । द्युतिमूले व्यतिक्रान्तावशोकतिलकावपि ॥९१ ।। द्युतिः परं तपः कृत्वा प्राप्य संक्षयमायुषः । दत्वा सानुजनोत्कंठामूर्द्धगवेयकं गतः ॥ ९२ ॥ यथा गुरुसमादिष्टं पिता पुत्रास्त्रयस्तु ते । ताम्रचूडपुरं प्राप्तौ प्रस्थितौ वंदितुं जिनम् ॥ ९३ ॥ पंचाशद्योजनं तत्र सिकताणवमीयुषाम् । अमाप्तानां च तावन्तं घनकालः समागतः ॥९४॥ तत्रैकं दुर्लभं प्राप्य प्रान्तदीनोच्चयोपमम् । बहुशखोपशाखाढ्यमनोकहामिमे स्थिताः ॥ ९५ ॥ ततो जनकपुत्रेण व्रजता कोशलां पुरीम् । दृष्टास्ते मानसे चास्य जातमेतत्सुकर्मणः ॥ ९६ ॥ इमे समयरक्षार्थमिहास्थुर्विजने घने । प्राणसाधारणोचारं कर्तारः क्व नु साधवः ॥ ९७ ।। इति संचिन्त्य चात्यन्तनिकटं परमं पुरस् । कृतं सविषसंपन्नं सद्विद्योदारशक्तिना ॥९८॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org