________________
पद्मपुराणम्।
४३४
त्रयोविंशोत्तरशतं पर्व। राम युक्तं किमेतत्ते यदत्यन्तं विहाय माम् । एकेन गम्यते तुंगममलं पदमच्युतम् ॥७३॥ ततो मुनीश्वरोऽवोचन्मुंच रागं सुराधिप । मुक्तिवैराग्यनिष्ठस्य रागिणो भवमज्जनम् ॥ ७४ ॥ अवलंब्य शिलां कण्ठे दोभ्यां तत्तुं न शक्यते । नदी तद्वन्न रागाद्यैस्तरितुं संसृतिः क्षमा ॥७५ ॥ ज्ञानशीलगुणासंगैस्तीर्यते भवसागरः । ज्ञानानुगतचित्तेन गुरुवाक्यानुवर्तिना ॥७६ ॥ आदिमध्यावसानेषु वेदितव्यमिदं बुधैः । सर्वेषां यान्महातेजाः केवली असते गुणान् ॥ ७७॥ . अतः परं प्रवक्ष्यामि यच्चान्यत्कारणं नृप । सीतादेवो यदप्राक्षीद्वभाषे यच्च केवली ॥ ७८ ॥ कैते नाथ समस्तज्ञ भव्या दशरथादयः । लवणांकुशयोः का वा दृष्टा नाथ त्वया गतिः ।।७९॥ सोऽवोचदानते कल्पे देवो दशरथोऽभवत् । केकया कैकसी चैव सुप्रजाश्चापराजिता ॥ ८ ॥ जनकः कनकश्चैव सम्यग्दर्शनतत्परः । एते स्वशक्तियोगेन कर्मणा तुल्यभूतयः ॥ ८१ ॥ ज्ञानदर्शनतुल्यौ द्वौ श्रमणौ लवणांकुशौ । विरजस्कौ महाभागौ यास्यतः पदमक्षयम् ॥ ८२ ॥ इत्युक्ते हर्षतोऽत्यन्तममरेन्द्रो महाधृतिः । संस्मृत्य भ्रातरं स्नेहादपृच्छत्तस्य चेष्टितम् ।। ८३ ॥ भ्राता तवापि इत्युक्ते सीतेन्द्रो दुःखितोऽभवत् । कृतांजलिपुटोऽपृच्छज्जातः केति मुनीश्वर ॥८४॥ पद्मनाभस्ततोऽवोचदच्युतेन्द्र मतं मृणु । चेष्टितेन गतो येन यत्पदं तव सोदरः ॥ ८५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org