________________
पद्मपुराणम् ।
त्रयोविंशोत्तरशतं पर्व |
तद्वीक्ष्य नारकं दुःखं स्मृत्वा च विबुधोत्तमः । वेपितात्मा विमानेऽपि ध्वनिमालब्ध तं सुधीः ।। प्रकंपमानहृदयः श्रीमच्चन्द्रनिभाननः । उयुक्तो भरतक्षेत्रे भूयोऽवतरितुं सुधीः ॥ ६१ ॥ संपतद्भिर्विमानौघैः समीरसमवर्त्तिभिः । तुरंगमहरिक्षीय मतंगजघटाकुलैः ॥ ६२ ॥ नानावर्णांबरधरैहरिस्रमुकुटोज्ज्वलैः । विचित्रवाहना रूदैर्ध्वजच्छत्रातिशोभितैः || ६३ ॥ शतघ्नीशक्तिचक्रासिधनुः कुन्तगदाधरैः । व्रजद्भिः सर्वतः कान्तैरमरैः साप्सरोगणैः ॥ ६४ ॥ मृदंग दुंदुभिस्वानैर्वेणुवीणास्वनान्वितैः । जयनंदरवोन्मिश्रैरापूर्यत तदा नभः ।। ६५ ॥ जगाम शरणं पद्मं सतिन्द्रः परमोदयः । कृतांजलिपुटो भक्त्या प्रणनाम पुनः पुनः ॥ ६६ ॥ एवं च स्तवनं कर्त्तुमारेभे विनयान्वितः । संसारतारणोपायप्रतिपत्तिदृढाशयः ॥ ६७ ॥ ध्यानमारुतयुक्तेन तपः संधुक्षितात्मना । त्वया जन्माटवी दग्धा दीप्तेन ज्ञानवह्निना ॥ ६८ ॥ शुद्धलेश्यात्रिशूलेन मोहनीयरिपुर्हतः । दृढं वैराग्यवज्रेण चूर्णितं स्नेहपंजरम् || ६९ ॥ संशये वर्त्तमानस्य भवाख्यविवर्त्तिनः । शरणं भवने नाथ मुनीन्द्र भवसूदन || ७० ॥ लब्धलब्धव्य ! सर्वज्ञ ! कृतकृत्य ! जगद्गुरो । परित्रायस्व पद्माभ मामत्याकुलमानसम् ॥ ७१ ॥ मुनिसुव्रतनाथस्य सम्यगासेव्य शासनम् । संसारसागरस्य त्वं गतोऽन्तं तपसोरुणा ॥ ७२ ॥
३ – २८
Jain Education International
४३३
For Private & Personal Use Only
www.jainelibrary.org