________________
पद्मपुराणम् ।
इतोऽन्यदुत्तरं नास्ति न भूतं न भविष्यति । इह सेत्स्यन्ति सिद्धयन्ति सिषिधु महर्षयः || ४७ || अर्हद्भिर्गदिता भावा भगवद्भिर्महोत्तमैः । तथैवेति दृढं भक्त्या सम्यग्दर्शनमिष्यते ॥ ४८ ॥ नयन्नित्यादिभिर्वाक्यैः सम्यक्त्वं नरके स्थितम् । सुरेन्द्रः शोचितुं लग्नस्तथाप्युत्तमभोगभाक् ४९ तद्भवं कान्तिलावण्यशरीरमतिसुन्दरम् । निर्दग्धं कर्मणा पश्य नवोद्यानमिवाग्निना ॥ ५० ॥ अचित्रीत यां दृष्ट्रा भुवनं सकलं तदा । छुतिः सा क गतोदात्ता चारुक्रीडितसंयुता ॥ ५१ ॥ कर्मभूमौ सुखाख्यस्य तस्य क्षुद्रस्य कारणे । ईदृग्दुखार्णवे मग्ना भवन्तो दुरितक्रियाः ॥ ५२ ॥ इत्युक्तैः प्रतिपन्नं तैः सम्यग्दर्शनमुत्तमम् | अनादिभवसंक्लिष्टर्यन प्राप्तं कदाचन ॥ ५३ ॥ एतस्मिन्नंतरे दुःखमनुभूय निकाचितम् । उद्गत्य प्राप्य मानुष्यमुपेमः शरणं जिनम् ॥ ५४ ॥ अहोऽतिपरमं देव त्वयाऽस्मभ्यं हितं कृतम् । यत्सम्यग्दर्शने रम्ये समेत्य विनियोजिताः || ५५ || हे सीतेन्द्र महाभाग ! गच्छ गच्छारुणाच्युतम् । शुद्धधर्मफलं स्फीतमनुभूय शिवं व्रज ॥ ५६ ॥ एवमुक्तः सुरेन्द्रोऽसौ शोकहेतुविवर्जितः । तथापि परमर्द्धिश्च सः शोचन्नान्तरात्मना ॥ ५७ ॥ दत्त्वा तेषां समाधानं पुनर्योधिप्रदं शुभम् । महासुकृतभाग्धीरः समारोहन्निजास्पदम् ॥ ५८ ॥ शंकितात्मा च संवृत्तचतुः शरणतत्परः । बहुशश्च करोति स्म पंचमेरुप्रदक्षिणम् ॥ ५९ ॥
Jain Education International
४३२
त्रयोविंशोत्तरशतं पर्व
1
For Private & Personal Use Only
www.jainelibrary.org