________________
पद्मपुराणम् ।
४३१
त्रयोविंशोत्तरशतं पर्व। हा! हा! किं कृतमस्माभिरात्मदुःखपरं परम् । अहो मोहस्य माहात्म्यं यत्स्वार्थादपि हीयते ३४ त्वमेव धन्यो देवेन्द्र यस्त्यक्त्वा विषयस्पृहाम् । जिनवाक्यामृतं पीत्वा संप्राप्तोऽस्यमरेशताम् ३५ ततोऽसौ पुरुकारुण्यो मा भैष्टेति बहुस्वनम् । एतैत नरकान्नाकं नये युष्मानितीरयत् ॥ ३६ ॥ ततः परिकरं बध्वा ग्रहीतुं स्वयमुद्यतः । दुर्ग्रहास्तु विलीयन्ते तेऽग्निना नवनीतवत् ॥ ३७॥ सर्वोपायैरपीन्द्रेण ग्रहीतुं स्पष्टमेव च । न शक्यास्ते यथा भावाश्छायया दपणे स्थिताः ॥ ३८ ॥ ततस्तेऽत्यन्तदुःखाता जगदुर्देवयानिनः । पुराकृतानि कर्माणि तानि भोग्यान्यसंशयम् ॥३९॥ विषयामिपलुब्धानां प्राप्तानां नरकायुषम् । स्वकृतप्राप्तिवश्यानां किंकरिष्यन्ति देवताः ॥ ४०॥ एतत्स्वोपचितं कर्म भोक्तव्यं यन्नियोगतः । तदास्माकं न शक्नोपि दुःखान्मोचयितुं सुर ॥४१॥ परित्रायस्व सीतेन्द्र नरकं येन हेतुना । प्राप्स्यामो न पुनब्रूहि त्वमस्माकं दयापरः ॥ ४२ ॥ देवो जगाद परमं शाश्वतं शिवमुत्तमम् । रहस्यमिव मूढानां प्रख्यातं भुवनत्रये ॥ ४३ ॥ कमेप्रमथनं शुद्धं पवित्रं परमार्थदम् । अप्राप्तपूर्वमाप्तं वा दुगृहीतं प्रमादिनाम् ॥ ४४ ॥ दुर्विज्ञेयमभव्यानां वृहद्भवभयानकम् । कल्याणं दुर्लभं सुष्टु सम्यग्दर्शन मूर्जितम् ॥ ४५ ॥ यदीच्छतात्मनः श्रेयस्तत एवं गतेऽपि हि । सम्यक्त्वं प्रतिपद्यस्व काले बोधिप्रदं शुभम् ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org