________________
पद्मपुराणम् ।
४३०
त्रयोविंशोत्तरशतं पर्व । शंबूके प्रशमं प्राप्ते ततोऽसौ विबुधेश्वरः । प्रबोधयितुयुक्तो यावत्तावदमी द्रुतम् ॥ २१ ॥ अतिदारुणकर्माणश्चला दुग्रहचेतसः । देवप्रभाभिभूताश्च नारकाः परिदुद्रुवुः ॥२२॥ रुरुदुश्चापरे दीना धाराश्रुगलिताननाः । धावन्तः पतिताः केचिद्गर्तेषु विषमेष्वलम् ॥ २३॥ मा मा नश्यत संत्रस्ता निवर्तध्वं सुदुःखिताः । न भेतव्यं न भेतव्यं नारका भवत स्थिताः ॥२४॥ एवमुक्ताः सुरेन्द्रेण समाश्वासनचेतसा । प्राविक्षन्नन्धतमसं वेपमानाः समंततः ॥ २५ ॥ भण्यमानास्ततो भूयः शक्रेणेषद्भयोज्झिताः । इत्युक्तास्ते ततः कुच्छ्रादवधानमुपागताः ॥२६॥ महामोहहृतात्मानः कथं नरकसंभवाः । एतयाऽवस्थया युक्ता न जानीथाऽऽत्मनो हितम् ॥२७॥ अदृष्टलोकपर्यन्ता हिंसानृतपरस्विनः । रौद्रध्यानपराः प्राप्ता नरकस्थं प्रतिद्विषः ॥ २८ ॥ भोगाधिकारसंसक्तास्तीत्रक्रोधादिरंजिताः । विकर्मनिरता नित्यं संप्राप्ता दुःखमीदृशम् ॥ २९ ॥ रमणीये विमानाग्रे ततो वीक्ष्य सुरोत्तमम् । सौमित्रिरावणौ पूर्वमप्राष्टां को भवानिति ॥३०॥ स तयोः सकलं वृत्तं पद्माभस्य तथाऽऽत्मनः । कर्मान्वितमभाषिष्ट विचित्रमिति संभवम् ॥३१॥ ततः श्रुत्वा स्ववृत्तान्तं प्रतिबोधमुपागतौ । उपशान्तात्मको दीनमेवं शुशुचतुस्तकौ ॥ ३२ ॥ धृतिः किं न कृता धर्मे तदा मानुषजन्मनि । अवस्थामिमकां येन प्राप्ताः स्मः पापकर्मभिः ॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org