________________
पद्मपुराणम् ।
त्रयोविंशोत्तरशतं पर्व |
गाढप्रहारनिर्भिन्नाः कृतभूतललोठनाः । श्वमार्जारहरिव्याघ्रैर्भक्ष्यन्ते पक्षिभिस्तथा ॥ ८ ॥ केचिच्छूलेषु भिद्यन्ते ताडयन्ते घनमुद्गरैः । कुंभ्यामन्ये निधीयन्ते ताम्रादिकलिलांभसि ॥ ९ ॥ करपत्रैर्विदार्यन्ते बद्धा दारुषु निश्चलाः । केचित्केचिच्च पाय्यन्ते ताम्रादिकलिलं बलात् ॥१०॥ केचिद्यंत्रेषु पीडयन्ते हन्यन्ते सायकैः परे । दन्ताक्षिरसनादीनां प्राप्नुवत्युद्धृतिं परे ॥ ११ ॥ एवमादीनि दुःखानि विलोक्य नरकाश्रिताम् । उत्पन्नपुरुकारुण्यः सोऽभूदमरपुंगवः ॥ १२ ॥ अग्निकुंडाद्विनिर्यातमथालोकत लक्ष्मणम् । बहुधा नारकैरन्यैरर्द्यमानं समन्ततः ।। १३ ॥ सीदन्तं विकृतग्राहे भीमे वैतरणीजले । छिद्यमानं च कनकैरसिपत्रवनान्तरे ॥ १४ ॥ वधाय चोद्यतं तस्य बाधमानं भयानकम् । क्रुद्धं वृहदापाणिं हन्यमानं तथा परैः ।। १५ ।। प्रचोद्यमानं घोराक्षस्रवंदेहं बृहन्मुखम् । तेन देवकुमारेण शंबूकेन दशाननम् ॥ १६ ॥ अत्रान्तरे महातेजाः सीतेन्द्रः सन्निधिं गतः । तर्जयन् तत्र तीव्रं तं गणं भवनवासिनाम् ॥१७॥ अरे ! रे ! पाप शंबूक प्रारब्धं किमिदं त्वया । कथमद्यापि ते नास्ति शमो निर्घृणचेतसः ||१८|| मुंच क्रूराणि कर्माणि भवस्वस्थः सुराधम । किमनेनाभिमानेन परमानर्थहेतुना ॥ १९ ॥ श्रुत्वेदं नारकं दुःखं जन्तोर्भयमुदीर्यते । प्रत्यक्षं किं पुनः कृत्वा त्रासस्तव न जायते ॥ २० ॥
Jain Education International
४२९
For Private & Personal Use Only
www.jainelibrary.org