________________
पद्मपराणम् ।
४२६
द्वाविंशत्युत्तरशतं पर्व ।
मनःप्रह्लादनकरं परं श्रोत्ररसायनम् । दिव्यं गेयामृतं चक्रुर्वशवीणास्वनानुगम् ॥ ५१॥ भ्रमरासितकेश्यस्ताः क्षणांशुसमतेजसः । सुकुमारास्तलोदर्यः पीनोन्नतपयोधराः ॥५२॥ चारुशृंगारहासिन्यो नानावर्णसुवाससः । विचित्रविभ्रमालापाः कान्तिपूरितपुष्कराः ॥ ५३॥ कामयांचक्रिरे मोहं सर्वतोऽवस्थिता मुनेः । श्रीवाहुबलिनः पूर्वं यथा त्रिदशकन्यकाः ॥ ५४ ।। आकृष्य बकुलं काचिच्छायाऽसौ चिन्नती कचित् । उद्वेजितालिचक्रेण श्रमणं शरणं स्थिता ५५ काश्चित्किल विषादेन कृतपक्षपरिग्रहाः । पप्रच्छनिर्णयं देव किंनामाऽयं वनस्पतिः ॥ ५६ ॥ दूरस्थमाधवीपुष्पग्रहणच्छमना परा । स्रंसमानांशुका बाहुमूलं क्षणमदर्शयत् ॥ ५७ ॥ आवध्य मंडलीमन्याश्चलिताकरपल्लवाः । सहस्रतालसंगीता रासकं दातुमुद्यताः ॥ ५८ ॥ नितंबफलके काचिदंभःस्वच्छारुणांशुके । चंडात नभो नीलं चकार किल लज्जया ॥ ५९॥ एवंविधक्रियाजालरितरस्वान्तहारिभिः । अक्षोभ्यत न पद्माभः पवनैरिव मंदरः ॥ ६० ।। ऋजुदृष्टिविशुद्धात्मा परीषहगणाशनिः । प्रविष्टो धवलं ध्यानप्रथमं सुप्रभो यथा ॥ ६१ ॥ तस्य सत्वपदन्यस्तं चित्तमत्यन्तनिर्मलम् । समेतमिन्द्रियैरासीदात्मनः प्रवणं परम् ॥ ६२ ॥ कुर्वन्तु वांछितं बाह्यक्रियाजालमनकधा । प्रच्यवन्ते न तु स्वार्थात्परमार्थविचक्षणाः ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org