________________
पद्मपुराणम् ।
४२७
द्वाविंशत्युत्तरशतं पर्व ।
यदा सर्वप्रयत्नेन ध्यानप्रत्यूहलालसः । चेष्टां चकार सीतेन्द्रः सुरमायाविकल्पिताम् ॥ ६४ ॥ अत्रान्तरे मुनिः पूर्वमत्यन्तशुचिरागमत् । अनादिकर्मसंघातं विभुर्दग्धुं समुद्यतः ॥६५॥ कर्मणः प्रकृतीपष्टिं निषूद्य दृढनिश्चयः । क्षपकणिमारुक्षदुत्तरां पुरुषोत्तमः ॥ ६६ ॥ माघशुद्धस्य पक्षस्य द्वादश्यां निशि पश्चिमे । यामे केवलमुत्पन्नं ज्ञानं तस्य महात्मनः ॥ ६७ ॥ सर्वद्रव्यसमुद्भूते तस्य केवलचक्षुषि । लोकालोकद्वयं जातं गोष्पदप्रतिमं प्रभोः ॥ ६८ ।।। ततः सिंहासनाकंपप्रयुक्तावधिचक्षुषः । सप्रणामं सुराधीशाः प्रचेलुः संभ्रमान्विताः ॥ ६९ ।। आजग्मुश्च महाभूत्या महासंघातवर्तिनः । विधातुमुद्यताः श्राद्धाः केवलोत्पत्तिपूजनम् ॥ ७० ॥ दृष्वा रामं समासीनं घातिकर्मविनाशनम् । प्रणेमुक्तिसंपन्नाश्चारणपिसुरासुराः ॥ ७१ ॥ तस्य जातात्मरूपस्य वंद्यस्य भुवनेश्वरैः । जातं समवसरणं समग्रं परमेष्ठिनः ॥ ७२ ॥ ततः स्वयंप्रभाभिख्यः सीतेन्द्रः केवलार्चनम् । कृत्वा प्रदक्षिणीकृत्य मुनिमक्षमयन्मुहुः ॥७३॥ क्षमस्व भगवन् दोषं कृतं दुबुद्धिना मया । प्रसीद कर्मणामंतं यच्छ मह्यमपि द्रुतम् ।। ७४ ॥
एवमनन्तश्रीद्युति-कान्तियुतो नूनमनातमूर्तिभंगवान् ।
कैवल्यसुखसमृद्धिं बलदेवोवाप्तवाञ्जिनोत्तमभक्त्या ॥ ७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org