________________
पद्मपुराणम् ।
४२४
द्वाविंशत्त्युत्तरशतं पर्व । विमानशिखरारूढौ विभूत्या परयाऽन्वितौ । अन्योन्यं वेदयिष्यावो दुःखानि च सुखानि च २५ सौमित्रिमथ संप्राप्मानेतुं प्रतिबुद्धताम् । सह तेनागमिष्यामि रामेणाक्लिष्टकर्मणा ॥ २६ ॥ इदमन्यच्च संचित्य सीतादेवः स्वयंप्रभः । सौधर्मकल्पमन्येन समागादारुणाच्युतात् ॥ २७ ॥ तत्रावतरति स्फीतं तन्मयां नंदनायते-वनं यत्र स्थितः साधुानयोगेन राघवः ॥ २८ ।। बहुपुष्परजोवाही ववो वायुः सुखावहः । कोलाहलरवो रम्यः पक्षिणां सर्वतोऽभवत् ॥ २९ ॥ प्रबलं चंचरीकाणां चंचलं बकुले कुलम् । प्रघुष्टं परपुष्टानां पुष्टं जुष्टं कदंबकैः ॥ ३० ॥ रुरुदुः सारिकाश्चारुनानास्वरविशारदाः । चिक्रीडुर्विशदश्वानाः शुकाः संप्राप्तकिंशुकाः ॥३१॥ मंजयः सहकाराणां विरेजुर्धमरान्विताः । तारका इव संशाता नूतनाश्चित्तजन्मनः ॥ ३२ ॥ कुसुमैः कर्णिकाराणामरण्यं पिंजरीकृतम् । पीतपिष्टातकेनेव कर्तुं क्रीडनमुद्यतम् ॥ ३३ ॥ अनपेक्षितगंडूषमदिगनेकदौहृदः । ववृषे बकुलैः प्राकृट् नभोभवकुलैरिव ॥ ३४ ॥ जानकीवेषमास्थाय कामरूपः सुरोत्तमः । समीपं रामदेवस्य मंथरं गंतुमुद्यतः ॥ ३५ ॥ मनोऽभिरमणे तस्मिन् वने जनविवर्जिते । विचित्रपादपत्राते सर्वर्तुकुसुमाकुले ॥ ३६॥ . सीता किल महाभागा पर्यटन्ती सुखं वनम् । अकस्मादग्रतः साधाः सुन्दरी समदृश्यत ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org