SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४२३ द्वाविंशत्युत्तरशतं पर्व | 1 महात्मा तां समारुह्य प्रच्छिन्नस्नेहबंधन: । तस्थौ प्रतिमया रात्रौ कर्मक्षपणकोविदः ॥ १२ ॥ अथासावच्युतेन्द्रेण प्रत्युक्तावधिचक्षुषा । उदारस्नेहयुक्तेन सीतापूर्वेण वीक्षितः ॥ १३ ॥ आत्मनो भवसंवर्त्त संस्मृत्य च यथाक्रमम् | जिनशासनमार्गस्य प्रभवं च महोत्तमम् ॥ १४ ॥ दध्यौ सोऽयं नराधीशो रामो भुवनभूषणः । योऽभवन्मानुषे लोके स्त्रीभूतायाः पतिर्मम || १५ || पश्य कर्मविचित्रत्वान्मानसस्य विचेष्टितम् । अन्यथाकांक्षितं पूर्वमन्यथा कांक्ष्यतेऽधुना ॥ १६ ॥ कर्मणः पश्यताधानं ही शुभाशुभयोः पृथक् । विचित्रं जन्म लोकस्य यत्साक्षादिदमीक्ष्यते ॥ १७ ॥ जगतो विस्मयकरौ सीरिचक्रायुधाविमौ । जातावूर्द्धाधरस्थान भाजानुचितकर्मतः ॥ १८ ॥ एकः प्रक्षीणसंसारो ज्येष्ठश्वरमदेहधृक् । द्वितीयः पूर्णसंसारो निरये दुःखितोऽभवत् ॥ १९ ॥ विषयैरवितृप्तात्मा लक्ष्मणो दिव्यमानुषैः । अधोलोकमनुप्राप्तः कृतपापोऽभिमानतः ॥ २० ॥ राजीवलोचनः श्रीमानेषोऽसौ लांगलायुधः । विप्रयोगेन सौमित्रेरुपेतः शरणं जिने ॥ २१ ॥ बहिः शत्रून्पराजित्य हलरत्नेन सुंदरः । इंद्रियाण्यधुना जेतुमुद्यतो ध्यानशक्तितः ॥ २२ ॥ तदस्य क्षपकश्रेणिमारूढस्य करोमि यत् । इह येन वयस्यो मे ध्यानभ्रष्टोऽभिजायते ॥ २३ ॥ aaisa सह प्रीत्या महामैत्रीसमुत्थया । मेरुं नन्दीश्वरं वाऽपि सुखं यास्यामि शोभया ||२४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy