________________
पद्मपुराणम् ।
४२२
Jain Education International
अथ द्वाविंशत्युत्तरशतं पर्व |
भगवान्बलदेवोऽसौ प्रशान्तरतिमत्सरः । अत्युन्नतं तपश्च सामान्यजनदुःसहम् ॥ १ ॥ अष्टम्याद्युपवासस्थः स्वमध्यस्थे विरोचने । पर्युपास्यत गोपाद्यैररण्ये गोचरं भ्रमन् ॥ २ ॥ व्रतगुप्तिसमित्याद्यः समयज्ञो जितेन्द्रियः । साधुवात्सल्यसंपन्नः स्वाध्यायनिरतः सुकृत् ॥ ३ ॥ लब्धानेकमहालब्धिरपि निर्विक्रियः परः । परीषहभटं मोहं पराजेतुं समुद्यतः ॥ ४ ॥ तपोऽनुभावतः शान्तैर्व्याघ्रैः सिंहेश्व वीक्षितः । विस्तारिलोचनोद्ग्रीवैर्मृगाणां च कदम्बकैः ॥५॥ निःश्रेयसगतस्वान्तः स्पृहाशक्तिविवर्जितः । प्रयत्नपरमं मार्ग विजहार वनान्तरे || ६॥ शिलातलस्थितो जानुपङ्कासनसंस्थितः । ध्यानान्तरं विवेशासौ भानुर्मेघान्तरं यथा ॥ ७ ॥ मनोज्ञे कचिदुद्देशे प्रलंबित महाभुजः । अस्थान्मंदरनिष्कम्पचित्तः प्रतिमया प्रभुः ॥ ८ ॥ युगान्तवीक्षणः श्रीमान् प्रशान्तो विहरन् कचित् । वनस्पतिनिवासाभिः सुरस्त्रीभिरपूज्यत ||९|| एवं निरुपमात्मासौ तपश्चक्रे तथाविधम् । कालेऽस्मिन् दुःषमे शक्यं ध्यातुमप्यपरैर्न यत् ॥ १० ॥ ततोऽसौ विहरन् साधुः प्राप्तकोटिशिलां क्रमात् । नमस्कृत्योद्धृता पूर्वं भुजाभ्यां लक्ष्मणेन या ॥
द्वाविंशत्युत्तरशतं पर्व |
For Private & Personal Use Only
www.jainelibrary.org