________________
४०८
पद्मपुराणम् ।
अष्टादशोत्तरशतं पर्व । अपूर्वः प्रववौ वायुः सुखस्पर्शः सुसौरभः । नभो यानैर्विमानैश्च व्याप्तमत्यन्तसुन्दरैः ॥१०७॥ गीयमानं सुरस्त्रीभिर्वीणानिःस्वनसंगतम् । आत्मीयं चरितं रामः शृणोति स्म क्रमस्थितम् १०८ एतस्मिन्नतरे देवः कृतान्तोऽमा जटायुषा । रामं पप्रच्छ किं नाथ प्रेरिताः दिवसाः सुखम् ॥१०९॥ एवमुक्तो जगौ राजा पृच्छथः किं शिवं मम । तेषां सर्वसुखान्येव ये श्रामण्यमुपागताः ॥११०॥ भवन्तावस्मि पृच्छामि को युवां सौम्यदर्शनौ । केन वा कारणेनेदं कृतमीदग्विचोष्टितम् ॥१११।। ततो जटायुर्देवोऽगादिति जानासि भूपते । गृथ्नोऽरण्ये यदाशिष्ये शमिष्यामि मुनीक्षणात् ॥११२॥ लालयिष्ये च यत्तत्र भ्रात्रा देव्या सह त्वया । सीता हृता हनिष्ये च रावणेनाऽभियोगकृत् ११३ यच्च कर्णे जपः शोकविहलेन त्वया प्रभो । दापिष्यते नमस्कारः पंचसत्पूरुषाश्रितः ॥ ११४ ।। सोऽहं भवत्प्रसादेन समारोहं त्रिविष्टपम् । तथाविधं परित्यज्य दुःखं तिर्यग्भवोद्भवम् ॥ ११५ ॥ सुरसौख्यमदोदारैर्मोहितेन मया गुरो । ज्ञानेनाऽवधिना ज्ञात्वाऽसाताऽऽगतेदृशी ॥ ११६ ॥ अवसानेऽधुना देव त्वत्कर्मकृतचेतनः । किंचित्किल प्रतीकारं समनुष्ठातुमागतः ॥ ११७ ॥ ऊचे कृतान्तदेवोऽपि गत्वा किंचित्सुवेशताम् । सोऽहं नाथ कृतांताख्यः सेनानीरभवन्तव ।।११८॥ स्मर्त्तव्योऽसि त्वया कृच्छ्रे इति बुदोदितं त्वया । विधातुं तदहं स्वामिन् भवदंतिकमागतः॥११९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org