SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । अष्टादशोत्तरशतं पर्व | स्मृतैरमृतसंपन्नैर्हृतशोको गुरूदितैः । पुरेव नंदनस्वास्थ्यं दधानः शुशुभेतराम् ॥ ९४ ॥ अवलंवितधीरत्वस्तैरेव पुरुषोत्तमः । छायां प्राप यथा मेरुर्जिनाभिषववारिभिः ॥ ९५ ॥ प्रालेयवाससंपर्कविमुक्तांभोजखंडवत् । प्रजह्लादे विशुद्धात्मा विमुक्तकलुषाशयः ॥ ९६ ॥ महान्तर्ध्वान्तसंमूढो भानोः प्राप्त इवोदयम् । महाक्षुदर्दितो लेभे परमान्नमिवेप्सितम् ॥ ९७ ॥ तृषा परमया ग्रस्तो महासर इवागमत् । महौषधमिव प्रापदत्यन्तव्याधिपीडितः ॥ ९८ ॥ यानपात्रमिवासादतनुकामो महार्णवम् । उत्पथप्रतिपन्नः सन्मार्ग प्राप्येव नागरः ॥ ९९ ॥ गंतुमिच्छन्निजं देशं महासार्थमिव श्रिताः । निर्गन्तुं चारकादिच्छोर्भमेव सुदृढाला ॥ १०० ॥ जिनमार्गस्मृतिं प्राप्य पद्मनाभः प्रमोदवान् । अधारयत्परां कान्ति प्रबुद्धकमलेक्षणः ॥ १०१ ॥ मन्यमानः स्वमुत्तीर्णमन्धकूपोदरादिव । भवान्तरमिव प्राप्तो मनसीदं समादधे ॥ १०२ ॥ अहो तृणाग्रसंसक्तजलबिन्दुचलाचलम् | मनुष्यजीवितं यद्वत्क्षणान्नाशमुपागतम् ।। १०३ ॥ भ्रमताऽत्यन्तकृच्छ्रेण चतुर्गतिभवान्तरे । नृशरीरं मया प्राप्तं कथं मूढोऽस्म्यनर्थकः ॥ १०४ ॥ कस्येष्टानि कलत्राणि कस्यार्थाः कस्य बांधवाः । संसारे सुलभं ह्येतद्विधिरेका सुदुर्लभा ॥ १०५ ॥ इति ज्ञात्वा प्रबुद्धं तं मायां संहृत्य तौ सुरौ । चक्रतुस्त्रैदशीमृद्धिं लोकविस्मयकारिणीम् ॥ १०६॥ Jain Education International ४०७ For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy