________________
४०४
पद्मपुराण ।
अष्टादशोत्तरशतं पर्व । बभणुश्चाधुना केन प्रकारेण स्वजीवितम् । धारयामः परा यत्र काऽप्येषा रामदेवता ॥ ५५ ॥ ईदृशी विक्रिया शक्तिः कुतो विद्याधरर्द्धिषु । किमिदं कृतमस्माभिरनालोचितकारिभिः ॥५६॥ विरुद्धा अपि हंसस्य खद्योताः किं नु कुर्वते । यस्यामीषुसहस्राप्तं परिजाज्वल्यते जगत् ।। ५७ ॥ प्रपलायितुकामानामपि नः सांप्रतं सखे । नास्ति मार्गः सुभीमेऽस्मिन्बले स्तृणति विष्टपम् ॥५८॥ महान्नु मरणेऽप्यस्ति गुणो जीवन् हि मानवः । कदाचिदेति कल्याणं स्वकर्मपरिपाकतः ॥५९॥ बुद्बुदा इव यद्यस्मिन्नमीभिः सैनिकोोर्मभिः । आनीताः स्म प्रविध्वंसं किं भवेदर्जितं ततः ६० इत्यन्योन्यकृताऽऽलापमुद्भूतपृथुवेपथुः । विद्याधरवलं सर्व जातमत्यन्तविह्वलम् ॥ ६१ ॥ विक्रियाक्रीडनं कृत्वा जटायुरिति पार्थिव । पलायनपथं तेषां दक्षिणं कृपया ददौ ॥ ६२ ॥ प्रस्पन्दमानचित्तास्ते कंपमानशरीरकाः । भृशं ते खेचरा नेशुः श्येनत्रस्ता द्विजा इव ॥ ६३ ॥ तस्मै विभीषणायाग्रे दास्यामोनु किमुत्तरम् । का वा शोभाऽधुनाऽस्माकमत्यन्तोपहतात्मनाम् ६४ छायया दर्शयिष्यामः कया वक्त्रं स्वदेहिनाम् । कुतो वा धृतिरस्माकं का वा जीवितशेमुषी ॥६५॥ अवधार्येति सव्रीडस्तस्मिन्निन्द्रजितात्मजः । प्राप्तो विरागमैश्वर्ये विभूतिं वीक्ष्य दैविकीम् ॥६६॥ समेतश्चारुरत्नेन स्निग्धकैश्च सभूमिभिः । रतिवेगमुनेः पार्श्वे विरोषः श्रमणोऽभवत् ॥ ६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org