________________
पद्मपुराणम् ।
४०३
अष्टादशोत्तरशतं पर्व।
कृतान्तत्रिदशोऽवोचद्भो गीर्वाणपते कुतः । इमं यातोऽसि संरंभं सोऽगदद्योजितावधिः ॥४२॥ यदाऽहमभवं गृध्रस्तदा येनेष्टपुत्रवत् । लालितः शोकतप्तं तमेति शत्रुबलं महत् ॥ ४३ ।। ततः कृतान्तदेवोऽपि प्रयुज्यावधिलोचनम् । अधोभूयिष्टदुःखार्तों बभाषे चातिभासुरः ॥४४॥ सखे सत्यं ममाप्येष प्रभुरासीत्सुवत्सलः । प्रसादादस्य भूपृष्ठे कृतं दुर्लडितं मया ॥ ४५ ॥ भाषितचाहमेतेन गहनात्परमोचनम् । तदिदं जातमेतस्य तदेह्येनमिमो लघु ॥ ४६ ॥ इत्युक्त्वा प्रचलन्नीलकेशकुंतलसंहरी । स्फुरकिरीटभाचको विलसन्मणिकुंडलौ ॥४७॥ माहेन्द्रकल्पतो देवौ श्रीमन्तौ प्रति कोसलाम् । जग्मतुः परमोद्योगौ प्रतिपक्षविचक्षणौ ॥४८॥ सामानिकं कृतान्तोऽगाद्वज त्वं द्विषतां बलम् । विमोहय रघुश्रेष्ठं रक्षैतं तु बजाम्यहम् ॥ ४९ ॥ ततो जटायुर्गीवोणः कामरूपविवत्ते कृत् । सुधीरुदारमत्यन्तं परसैन्यममोहयत् ॥ ५० ॥ आगच्छतामरातीनामयोध्यामीक्षितां पुरः । पुनः प्रदर्शयामास पर्वतं पृष्ठतः पुनः ॥५१॥ निरस्याऽऽरादधीयांस्तां शत्रुखेचरवाहिनीम् । आरेभे रोदसी व्याप्तुमयोध्याभिरनंतरम् ॥५२॥ अयोध्यैष विनीतेयमियं सा कोशला पुरी । अहो सर्वमिदं जातं नगरी गहनात्मकम् ।। ५३ ॥ इति वीक्ष्य महीपृष्ठं खं चायोध्यासमाकुलम् । मानोनत्या वियुक्तं तद्वीक्ष्यापनमभूद्धलम् ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org