________________
पद्मपुराणम् ।
३८०
त्रयोदशोत्तरशतं पर्व । अशाश्वतेन देहेन विहां शाश्वतं परम् । परमं तव कल्याणी मतिरेषा समुद्गता ।। २९ ॥ इत्यनुज्ञां मुनेः प्राप्य संवेगरभसान्वितः । कृतप्रणमनस्तुष्टः पर्यङ्कासनमाश्रितः ॥ ३० ॥ मुकुटं कुंडले हारमवशिष्टं विभूषणम् । समुत्ससर्ज वस्त्रं च मानसं च परिग्रहम् ॥ ३१॥ दयितानिगडं भित्त्वा दग्ध्वा जालं ममत्त्वजम् । छित्त्वा स्नेहमयं पाशं त्यक्त्वा सौख्यं विषोपमम् ।। वैराग्यदीपशिखया मोहध्वान्तं निरस्य च । कमप्यपकरं दृष्टा शरीरमतिभंगुरम् ॥ ३३ ॥ स्वयं सुसुकुमाराभिर्जितपमाभिरुत्तमम् । उत्तमांगरुहो नीत्वा करशाखाभिरुत्तमः ॥ ३४ ॥ निःशेषसंगनिर्मुक्तो मुक्तिलक्ष्मी समाश्रितः । महाव्रतधरः श्रीमाञ्छ्रीशैलः शुशुभेतराम् ॥ ३५ ॥ निर्वेदप्रभुरागाभ्यां प्रेरितानि महात्मनाम् । शतानि सप्त साग्राणि पंचाशद्भिः सुचेतसाम् ॥३६॥ विद्याधरनरेन्द्राणां महासंवेगवर्तिनाम् । स्वपुत्रेषु पदं दत्त्वा प्रतिपन्नानि योगिताम् ॥ ३७॥ विद्युद्गत्यादिनामानः परमप्रीतमानसाः । मुक्तसर्वकलंकास्ते श्रिताः श्रीशैलविभ्रमम् ॥ ३८ ॥ कृत्वा परमकारुण्यं विप्रलापं महाशुचम् । वियोगानलसंतप्ताः परं निर्वेदमागताः ॥ ३९ ॥ प्रथितां बंधुमत्याख्यामुपगम्य महत्तराम् । प्रयुज्य विनयं भक्त्या विधाय महमुत्तमम् ॥४०॥ श्रीमत्यो भवतो भीता धीमत्यो नृपयोषितः । महद्भूषणनिमुक्ताः शीलभूषाः प्रवव्रजुः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org