________________
पद्मपुराणम् ।
३७९
त्रयोदशोत्तरशतं पर्व । समाश्वास्य विषादात्तं प्रमदाजनमाकुलम् । वचोभिर्बोधने शक्तैर्नानावृत्तांतशंसिभिः ॥ १६ ॥ तनयाँश्च समाधाय राजधर्मे यथाक्रमम् । सर्वानियोगकुशलः शुभावस्थितमानसः ॥ १७ ॥ सुहृदां चक्रवालेन महता परितो वृतः । विमानभवनाद्राजा निर्ययो वायुनंदनः ॥ १८ ॥ नरयानं समारुह्य रत्नकांचनभासुरम् । बुढ्दादर्शलंबूषचित्रचामरसुन्दरम् ॥ १९ ॥ धुपुंडरीकसंकाशं बहुभक्तिविराजितम् । चैत्योद्यानं यतः श्रीमान्पास्थितः परमोदयः ॥ २० ॥ विलसत्केतुमालाढ्यं तस्य यानमुदीक्ष्य तत् । ययौ हर्षविषादं च जनः सक्ताश्रलोचनः ॥२१॥ तत्र चैत्यमहोद्याने विचित्रद्रुममंडिते । सारिकाचंचरीकान्यपुष्टकोलाहलाकुले ॥ २२ ॥ नानाकुसुमकिंजल्कसुगंधिसततायने । संयतो धर्मरत्नाख्यस्तदा तिष्ठति कीर्तिमान् ॥ २३ ॥ धर्मरत्नमहाराशिमत्यन्तोत्तमयोगिनम् । यथा बाहुवली पूर्व भावप्लाविनमानसः ॥ २४ ॥ नरयानात्समुत्तीर्य हनूमानाससाद तम् । भगवन्तं नभोयानं चारणार्षिगणावृतम् ॥ २५ ॥ प्रणम्य भक्तिसंपन्नः कृत्वा गुरुमहं परम् । जगाद शिरसि न्यस्य करराजीवकुड्मलम् ॥ २६ ॥ उपेत्य भवतो दीक्षां निर्मुक्तांगो महामुने । अहं विहर्तुमिच्छामि प्रसादः क्रियतामिति ॥२७॥ यतिराहोत्तम युक्तमेवमस्तु सुमानसः । जगन्निःसारमालोक्य क्रियतां स्वहितं परम् ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org