________________
पद्मपुराणम् ।
त्रयोदशोत्तरशतं पर्व । आपृच्छत सखीं वातिर्महासंवेगसंगतः । निःस्पृहात्मा यथापूर्वं भरतोऽयं तपोवनम् ॥३॥ ततः कृपणलोभाक्षाः परमोद्वेगवाहिताः । नाथं विज्ञापयंति स्म सचिवाः प्रेमनिर्भराः ॥ ४॥ अनाथान् देव नो कर्तुमस्मानहेसि सद्गुण । प्रभो प्रसीद भक्तेषु क्रियतामनुपालनम् ॥५॥ जगाद मारुतिय॒यं परमप्यनुवर्तिनः । अनर्थबांधवा एव मम नो हितहेतवः ॥ ६॥ उत्तरन्तं भवांभोधिं तत्रैव प्रक्षिपति ये । हितास्ते कथमुच्यते वैरिणः परमार्थतः ॥७॥ माता पिता सुहृद्धाता न तदाऽगात्सहायताम् । यदा नरकवासेषु प्राप्तं दुःखमनुत्तमम् ॥ ८॥ मानुष्यं दुर्लभं प्राप्य बोधिं च जिनशासने । प्रमादो नोचितः कत्तुं निमेषमपि धीमतः ॥९॥ समुष्यापि परं प्रीतैर्भवद्भिः सह भोगवत् । अवश्यं भावुकस्तीवो विरहः कर्मनिर्मितः ॥१०॥ देवासुरमनुष्येन्द्रा स्वकर्मवशवर्तिनः । कालदावानलालीढाः के वा न प्रलयं गताः ॥ ११ ॥ वल्योपमसहस्राणि त्रिदिवेऽनेकशो मया । भुक्ता भोगा न वाऽतृप्यं वह्निः शुष्कंधनैरिव ॥१२॥ गताऽऽगमविधेर्दातृ मत्तोऽपि सुमहाबलं । अपरं नाम कर्माऽस्ति जाता तनुर्ममाऽक्षमा ॥१३॥ देहिनो यत्र मुह्यन्ति दुर्गतं भवसंकटम् । विलंध्य गंतुमिच्छामि पदं गर्भविवर्तिनम् ॥ १४॥ . वज्रसारतनौ तस्मिन्नेवं कृतविचेष्टिते । अभूदंतःपुरस्त्रीणां महानादितध्वनिः ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org