________________
पद्मपुराणम् ।
३७६
द्वादशोत्तरशतं पर्व । अनाप्यैनं यथा दीना बध्यन्ते मृगपक्षिणः । तथा विषयजालेन बध्यन्ते मोहिनो जनाः ॥८४॥ आशीविषसमानैर्यो रमते विषयैः समम् । परिणामे स मूढात्मा दह्यते दुःखवहिना ॥ ८५ ॥ को ह्येकदिवसं राज्यं वर्षमन्विष्य यातनाम् । प्रार्थयेत विमूढात्मा तद्वद्विषयसौख्यभाक् ॥ ८६ ॥ कदाचिद्वध्यमानोऽपि मोहतस्करवंचितः । न करोति जनः स्वार्थ किमतः कष्टमुत्तमम् ॥ ८७ ॥ भुक्त्वा त्रिविष्टपे धर्म मनुष्यभवसंचितम् । पश्चान्मुषितवद्दीनो दुःखी भवति चेतनः ॥ ८८ ॥ भुक्त्वापि त्रिदशान् भोगान्सुकृते क्षयमागते। शेषकर्मसहायः सन् चेतनः कापि गच्छसि ॥८९॥ एतदेवं प्रतीक्षेण त्रिजगत्पतिनोदितम् । यथा जंतोनिजं कर्म बांधवः शत्रुरेव वा ॥ ९ ॥ तदलं निंदितैरेभिर्भोगैः परमदारुणैः । विप्रयोगः सहामीभिरवश्यं येन जायते ॥ ९१ ॥ प्रियं जनमिमं त्यक्त्वा करोमि न तपो यदि । तदा सुभूमचक्रीव मरिष्याम्यवितृप्तकः ॥ ९२ ॥ श्रीमत्यो हरिणीनेत्रा योषिद्गुणसमन्विताः । अत्यन्तदुस्त्यजा मुग्धा मदाहितमनोरथाः ।.९३॥ कथमेतास्त्यजामीति संचिंत्य विमनाः क्षणम् । आश्राणयदुपालंभ हृदयस्य प्रबुद्धधीः ॥ ९४ ॥
दीर्घ कालं रत्त्वा नाके गुणयुवतीभिः समनुभूतिभिः ।
मर्यक्षेत्रेऽप्यसमं भूयः प्रमदवरवनिताजनैः परिलालितः ॥ ९५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org