________________
पद्मपुराणम्।
३७५
द्वादशोत्तरशतं पर्व। ततः परमरागाक्ता संध्याऽऽश्लिष्य दिवाकरम् । अस्तक्षितिभृदावासं भेजे खेदनिनीषया ॥७१॥ कृष्णपक्षे तदा रात्रिस्तारा बंधुभिरावृता । रहिता चन्द्रनाथेन नितान्तं न विराजते ॥ ७२ ॥ अवतीर्य ततस्तेन सुरदुंदुभिनामनि । शैलपादे परं रम्ये सैन्यमावासितं शनैः ॥ ७३ ॥ तत्र पद्मोत्पलामोदवाहिमंथरमारुताः । सुखं जिनकथाऽऽसक्ता यथास्वं सैनिकाः स्थिताः ॥७४॥ अथोपरि विमानस्य निषण्ण: शिखरांतिके । प्राग्भारचंद्रशालायाः कैलासाधित्यकोपमे ॥७५॥ ज्योतिष्पथात्समुत्तुंगात्एतत्प्रस्फुरितप्रभम् । ज्योतिर्बिबं मरुत्सूनुरालोकत तमोऽभवत् ।। ७६ ॥ अचिंतयच्च हा कष्टं संसारे नास्ति तत्पदम् । यत्र न क्रीडति स्वेच्छं मृत्युः सुरगणेष्वपि ॥७७॥ तडिदुल्कातरंगातिभंगुरं जन्म सर्वतः । देवानामपि यत्र स्यात्प्राणिनां तत्र का कथा ॥ ७८ ॥ अनंतशो न भुक्तं यत्संसारे चेतनावता । न तदास्ति सुखं नाम दुःखं वा भुवनत्रये ॥ ७९ ॥ अहो मोहस्य माहात्म्यं परमेतद्धलान्वितम् । एतावन्तं यतः कालं दुःखपर्यटितं भवेत् ॥ ८॥ उत्सापिण्यवसर्पिण्यौ भ्रांत्वा कृच्छ्रात्सहस्रशः । अवाप्यते मनुष्यत्वं कष्टं नष्टमनाप्तवत् ॥ ८१ ॥ विनश्वरसुखासक्ताः सोहित्यपरिवर्जिताः । परिणामं प्रपद्यन्ते प्राणिनस्तापसंकटम् ॥ ८२ ।। चलान्युत्पथवृत्तानि दुःखदानि पराणि च । इंद्रियाणि न शाम्यन्ति विना जिनपथाश्रयात् ॥८३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org