________________
पद्मपुराणम् ।
३७३
द्वादशोत्तरशतं पर्व |
अशेषोत्तमरत्नौघभूषितं परमाकृतिम् । मुक्तादामसहस्राढ्यं बुबुदादर्शशोभितम् ।। ४५ ।। किंकिणीपटलंबूषप्रकीर्णकविराजितम् । प्राकारतोरणोत्तुंगगोपुरैः परमैर्युतम् ।। ४६ ।। नानावर्णचलत्केतुकांचनस्तंभभासुरम् | गंभीरं चारुनिर्व्यूहमशक्याशेषवर्णनम् || ४७ ॥ पंचाशद्योजनायामं षट्त्रिंशन्मानमुत्तमम् । इदं जिनगृहं कान्ते सुमेरोर्मुकुटाते || ४८ || इति शंसन्महादेव्यै समीपत्वमुपागतः । अवतीर्य विमानाग्राच्चक्रे हृष्टः प्रदक्षिणाम् ॥ ४९ ॥ तत्र सर्वातिशेषत्वं महैश्वर्यसमन्वितम् । नक्षत्रग्रहताराणां शशांकमिव मध्यगम् ॥ ५० ॥ केशर्यासनमूर्द्धस्थं स्फुरत्स्फारस्वतेजसम् | शुभ्रा शिखरस्याग्रे शरदीव दिवाकरम् ॥ ५१ ॥ प्रतिबिंबं जिनेन्द्रस्य सर्वलक्षण संगतम् । सान्तःपुरो नमश्चक्रे रचितांजलिमस्तकः ॥ ५२ ॥ जिनेन्द्रदर्शनोद्भूतमहासम्मदसंपदाम् । विद्याधरवरस्त्रीणां धृतिरासीदलं परा ॥ ५३ ॥ उत्पन्नघनरोमांचा विपुलाऽऽयतलोचनाः । भक्त्या परमया युक्ताः सर्वोपकरणान्विताः ॥ ५४ ॥ महाकुलप्रसूतास्ताः स्त्रियः परमचेष्टिताः । चक्रुः पूजां जिनेंद्राणां त्रिदृशप्रमदा इव ॥ ५५ ॥ जांबूनदमयैः पद्मः पद्मरागमयैस्तथा । चन्द्रकान्तमयैश्चापि स्वभाव कुसुमैरिति ॥ ५६ ॥ सौरभाक्रान्तदिक्चक्रुर्गंधैश्च परमोज्ज्वलैः । पवित्रद्रव्यसंभूतैर्धूपैश्वाकुल कोटिभिः ॥ ५७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org