________________
पद्मपुराणम् ।
३७२
द्वादशोत्तरशतं पर्व ।
जिनेन्द्रनरकूटानि नानारत्नमयानि च । कल्मषक्षोददक्षाणि युक्तमानान्यनेकशः ॥ ३२ ॥ एवमादीनि वस्तूनि वीक्षमाणः शनैः शनैः । सेव्यमानश्च कान्ताभिर्यात्यसौ परमोदयः ॥ ३३ ॥ नभःशिरःसमारूढो विमानशिखरस्थितः । दर्शयन्याति तद्वस्तु समुद्धृतनूरुहः ।। ३४ ।। पश्य पश्य प्रिये धामान्यतिरम्याणि मंदरे । स्नपनानि जिनेंद्राणाममूनि शिखरांतिके ॥ ३५ ॥ नानारत्नशरीराणि भास्करप्रतिमानि च । शिखराणि मनोज्ञानि तुंगानि विपुलानि च ॥ ३६ ॥ गुहा मनोहरद्वारा गंभीरा रत्नदीपिताः । परस्परसमाकीर्णा दीधितीरतिदूरगाः || ३७ ॥ इदं महीतले रम्यं भद्रशालाहयं वनम् । मेखलायामिदं तच्च नंदनं प्रथितं भुवि ॥ ३८ ॥ इदं वक्षः प्रदेशस्य कल्पद्रुमलतांतकम् । नानारत्नशिलाशोभि वनं सौमनसं स्थितम् ॥ ३९ ॥ जिनागारं सहस्राढ्यं त्रिदशक्रीडनोचितम् । पांडुकाख्यं वनं भाति शिखरे सुमनोहरम् ॥ ४० ॥ अच्छिन्नोत्सवसंतानमहमिन्द्रजगत्समम् । यक्षकिंनरगंधर्व संगीतपरिनादितम् ॥ ४१ ॥ सुरकन्यासमाकीर्णमप्सरोगणसंकुलम् । विचित्रगणसंपूर्ण दिव्यपुष्पसमन्वितम् ।। ४२ ।। सुमेरोः शिखरे रम्ये स्वभावसमवस्थिते । इदमालोक्यते जैनं भवनं परमाद्भुतम् ॥ ४३ ॥ ज्वलज्ज्वलन संध्याक्तमेघवृन्दसमप्रभम् । जांबूनदमयं भानुकूटप्रतिममुन्नतम् ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org