________________
पद्मपुराणम् ।
३१
द्वादशोत्तरशतं पर्व।
एवं तौ तावदासते पुरुषो जगदुत्कटौ । अथ श्रीशैलवीरस्य वृत्तान्तं शृणु पार्थिव ॥ १९ ॥ सेवते परमैश्वर्य नगरे कर्णकुंडले । पूर्वपुण्यानुभावेन स्वर्गीवानिलनंदनः ॥ २० ॥ विद्याधरसहस्रेण सहितः परमाक्रियः । स्त्रीसहस्रपरीवारः स्वेच्छयाटति मेदिनीम् ॥ २१ ॥ वरं विमानमारूढाः परमर्द्धिसमन्वितः । सत्काननादिषु श्रीमाँस्तदा क्रीडति देववत् ॥ २२ ॥ अन्यदा जगदुन्मादहेतो कुसुमहासिनि । वसन्तसमये प्रेमप्रियामोदनभस्वति ॥ २३ ॥ जिनेन्द्रभाक्तसंवीतमानसः पवनात्मजः । हृष्टः संप्रस्थितो मेरुमन्तःपुरसमन्वितः ॥ २४ ॥ नानाकुसुमरम्याणि सेवितानि युवासिभिः । कुलपर्वतसानूनि प्रस्थितः सोऽवतिष्ठते ॥ २५ ॥ मत्तभंगान्यपुष्टोघा नादयन्ति मनोहरैः । सरोभिदर्शनीयानि स वनानि च भूरिशः ॥ २६ ॥ मिथुनैरुपभोग्यानि पत्रपुष्पफलैस्तथा । काननानि विचित्राणि रत्नोद्योतितपर्वताः ॥ २७ ॥ सरितो विशदद्वीपा नितान्तविमलांभसः । वापीः प्रवरसोपानास्तटस्थोत्तुगपादपाः ॥ २८ ॥ नानाजलजकिंजल्ककिर्मीरसलिलानि च । सरांसि मधुरस्वानः सेवितानि पतत्रिभिः ॥ २९ ॥ महातरंगसंगोत्थफेनमालाट्टहासिनीः । महायादोगणाकीर्णा बहुचित्रा महानदीः ॥ ३० ॥ विलसदनमालाभियुक्तान्युपवनैवरैः । मनोहरणदक्षाणि चित्राण्यायतनानि च ॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org