________________
३७०
पद्मपुराणम् ।
द्वादशोत्तरशतं पर्व |
स्वच्छस्फटिकपद्मस्थौ चंदनद्रवचर्चितौ । जलार्द्रनलिनीपुष्पदलमूलौघसंस्तरौ ॥ ६ ॥ एलालवङ्गकर्पूरक्षोदः संसर्गशीतलम् । विमलं सलिलं स्वादु सेवमानौ मनोहरम् ॥ ७ ॥ विचित्र संकथादक्षवनिताजनसेवितौ । शीतकालमिवाऽऽनीतं बलाद्धारयतः शुचौ ॥ ८ ॥ योगिनः समये यत्र तरुमूलव्यवस्थिताः । क्षपयंत्यशुभं कर्म धारानिर्धूतमूर्त्तयः ॥ ९ ॥ विलसद्विद्युदुद्यते तत्र मेघांधकारिते । वृहद्धर्घरनीरौधे कूलमुद्गत सिंधुके ॥ १० ॥ मेरुशृंगसमाकारवर्त्तिनौ वरवाससौ । कुंकुमद्रवदिग्धांगायुपयुक्तामितागुरू ॥ ११ ॥ महाविलासिनीनेत्रभ्रंगौघकमलाकरौ । तिष्ठतः सुंदरीक्रीडौ यक्षेन्द्राविव तौ सुखम् ॥ १२ ॥ प्रालेयपटसंवीता धर्मध्यानस्थचेतसः । तिष्ठन्ति योगिनो यत्र निशि स्थंडिलपृष्टगाः ॥ १३॥ तत्र काले महाचंड शीतवाताहतद्रुमे । पद्माकरसमुत्सादे दापितोष्णकरोद्गमे ।। १४ ।। प्रासादावनिकुक्षिस्थौ तिष्ठतस्तौ यथेप्सितम् । श्रीमद्युवतिवक्षोज क्रीडालंबनवक्षसौ ॥ १५ ॥ वीणामृदंगवंशादिसंभूतं मधुरस्वरम् | कुर्बाणौ मनसि स्वेच्छं परं श्रोत्ररसायनम् ॥ १६ ॥ वाणीनिर्जितवीणाभिरनुकूलाभिरादरात् । सेव्यमानौ वरस्त्रीभिरमरीभिरिवामरौ ॥ १७ ॥ नक्तं दिनं परिस्फीतभोगसंपत्समन्वितौ । सुखं तौ नयतः कालं सर्वपुण्यानुभावतः ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org