________________
पद्मपुराणम् ।
एकसप्ततितम पर्व। अपश्यञ्च दशास्यं स सामिपर्यंकसंस्थितम् । ध्यायन् विद्या समाधानी प्रव्रज्यां भरतो यथा ॥५१॥ जगाद चाधुना वार्ता का ते रावण कथ्यताम् । तत्ते करोमि यत्कनु क्रुद्धोऽपि न यमःक्षमः ५२ कोऽयं प्रवर्तितो दंभो जिनेंद्राणां पुरस्त्वया । धिक् त्वां दुरितकर्माणं वृथा प्रारब्धसक्रियम् ५३ एवमुक्त्वोत्तरीयांतदलेन तमताडयत् । कृत्वा कहकहाशब्दं विभ्रमी गर्वनिर्भरम् ॥ ५४॥ अग्रतोऽवस्थितान्यस्य पुष्पाण्यादाय तीव्रगीः । अताड्यदधो वक्त्रे निभृतं प्रमदाजनम् ॥५५॥ आकृष्य दारपाणिभ्यां निष्ठुरं कुंचितेक्षणः । तापनीयानि पद्मानि चकार जिनपूजनम् ॥५६॥ पुनरागम्य दुःखाभिर्वाग्भिः संचोदयन्मुहुः । अक्षमालां करादस्य गृहीत्वा चपलोच्छिनत् ५७ विकीर्णा तां पुरस्तस्य पुनरादाय सर्वतः । शनैरघटयद् भूयः करे चास्य समर्पयत् ॥ ५८ ॥ करे चाकृष्य चिच्छेद पुनश्चाघट्टयञ्चलः । चकार गलके भूयो निदधे मस्तके पुनः ॥ ५९॥ . ततोऽतःपुरराजीवखंडमध्यमुपागतः । चक्रे ग्रीष्माभितप्तस्य क्रीडा वन्यस्य दंतिनः ॥ ६ ॥ प्रभ्रष्टदुष्टदुर्दान्तः स्थूरीपृष्ठकचंचलः । प्रवृत्तः शंकया मुक्तः सोऽतःपुरविलोलने ॥१॥ कृतग्रंथिकमाधाय कंठे कस्याश्चिदंशुकम् । गुर्वारोपपति द्रव्यं किंचिस्मितपरायणः ॥ १२॥ उत्तरीयेण कंठेऽन्यां संयम्यालंबयत्पुरः । स्तंभेऽमुंचत्पुनः शीघ्रं कृतदुःखविचेष्टिताम् ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org