SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३६८ एकादशोत्तरशतं पर्व । भोगैरुपार्जितं पापमत्यन्तमपि पुष्कलम् । सुध्यानवहिनाऽवश्यं धक्ष्यामि क्षणमात्रतः ॥ ६॥ अत्र सेनां समावेश्य विमानक्रीडनं भजे । उद्वासयामि शत्रूणां नगराणि समंततः ॥ ७॥ मान,गोन्नतेभंगं करोमि रिपुखड़नाम् । स्थापयाम्युभयश्रेण्योर्वशे शासनकारिते ॥ ८ ॥ मेरोमरकतादीनां रत्नानां विमलेवलम् । शिलातलेषु रम्येषु क्रीडामि ललनान्वितः ॥९॥ एवमादीनि वस्तूनि ध्यायतस्तस्य जानकेः । समतीयुर्मुहूतानि संवत्सरशतान्यलम् ॥१०॥ कृतमेतत्करोमीदं करिष्यामीदमित्यसो । चिंतयन्नात्मनोऽवेदी चायुः संहारमागतम् ॥ ११ ॥ अन्यदा सप्तकस्कंधप्रासादस्याधितिष्ठतः । अपप्तदशनिमूनि तस्य कालं ततो गतः ॥ १२॥ अशेषतो निजं वेत्ति जन्मांतरविचष्टितम् । दीर्घसूत्रस्तथाऽऽप्यात्मसमुद्धारे स नो स्थितः ॥१३॥ तृष्णाविषादहतृणां क्षणमप्यस्ति नो शमः । मूोंपकंठदत्तांघ्रिमत्युः कालमुदीक्षते ॥ १४ ।। अस्य दग्धशरीरस्य कृते क्षणविनाशिनः । हताशः कुरुते किं न जीवो विषयवासकः ॥ १५ ॥ ज्ञात्वा जीवितमानाद्यं त्यक्त्वा सर्वपरिग्रहम् । स्वहिते वर्त्तते यो न स नश्यत्य कृतार्थकः ॥१६॥ सहस्रेणापि शास्त्राणां किं येनात्मा न शाम्यते । तृप्तमेकपदेनाऽपि येनाऽऽत्मा शममश्नुते ॥१७॥ कर्तुमिच्छति सद्धर्म न कर्णेति तमप्ययम् । दिवं यियासुर्विच्छिन्नपक्षः काक इव श्रमम् ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy