________________
पद्मपुराणम् ।
३६७
सम्यक्तपोभिः प्रविधूय पापमध्यात्मयोगैः परिरुध्य पुण्यम् । ते क्षीणनिःशेषभवप्रपंचा प्रापुः पदं जैनमनंतसौख्यम् ॥ ९४ ॥ एतत्कुमाराष्टकमंगलं यः पठेद्विनीतः शृणुयाच्च भक्त्या |
तस्य क्षयं याति समस्तपापं रविप्रभस्योदयते च चन्द्रः ॥ ९५ ॥ इति श्रीपद्मपुराणे श्रीरविषेणाचार्यप्रणीते कुमाराष्ट्रकनिष्क्रमणाभिधानं नाम दशोत्तरशतं पर्व ॥ ११० ॥
Jain Education International
एकादशोत्तरशतं पर्व |
अथैकादशोत्तरशतं पर्व |
गणी वीर जिनेन्द्रस्य प्रथमः प्रथमः सताम् । अवेदयन्मनो यातं प्रभामंडलचेष्टितम् ॥ १ ॥ विद्याधरी महाकांतकामिनी वीरुदुद्भवे । सौख्यपुष्पासवे सक्तः प्रभामंडलषट्पदः ॥ २ ॥ अचिंतयहं दीक्षां यद्युपैम्यपवाससाम् । तदैतदंगनाप्रेमखंडं पद्मत्यसंशयम् || ३ || एतासां मत्समासक्तचेतसां विरहे मम । वियोगो भविताऽवश्यं प्राणैः सुखमपालितैः ॥ ४ ॥ दुस्त्यजानि दुरापानि कामसौख्यान्यवारितम् । भुक्त्वा श्रेयस्करं पश्चात्करिष्यामि ततः परम् ५
For Private & Personal Use Only
www.jainelibrary.org