________________
पद्मपुराणम् ।
३६६
दशाधिकशतं पर्व । दुरंतैस्तदलं तात प्रियसंगमलोभनैः । विचक्षणजनद्विष्टैस्तडिइंडचलाचलैः ॥ ८२ ॥ ध्रुवं यदा समासाद्यो विरहो बंधुभिः समम् । असमंजसरूपेऽस्मिन्संसारे का रतिस्तदा ।। ८३ ॥ अयं मे प्रिय इत्याऽऽस्थाव्यामोहोपनिबंधनः । एक एव यतो जंतुर्गत्यागमनदुःखभाक् ॥ ८४॥ वितथागमकुद्वीपे मोहसंगतपंकके । शोकसंतापफेनाढ्ये भवाऽऽवर्त्तत्रजाकुले ॥ ८५॥ व्याधिमृत्यूमिकल्लोले मोहपातालगहरे । क्रोधादिमझरचरनक्रसंघातघट्टिते ॥८६॥ कुहेतुसमयोद्भूतनिहर्हादात्यंतभैरवे । मिथ्यात्वमारुतोद्भुते दुर्गतिक्षारवारिणि ॥ ८७॥ नितान्तदुःसहोदारवियोगबडवानले । सुचिरे तात खिन्नाः स्मो घोरे संसारसागरे ॥ ८८॥ नानायोनिषु संभ्रम्य कृच्छ्रात्प्राप्ता मनुष्यताम् । कुर्मस्तथा यथा भूयो मज्जामो नात्र सागरे ८९ ततः परिजनाकीणावापृच्छय पितरौ क्रमात् । अष्टौ कुमारवीरास्ते निर्जग्मुगृहचारकात् ।। ९०॥ आसीनिःकामतां तेषामीश्वरत्वे तथाविधे । बुद्धिर्जीर्णतृणे यद्वत्संसाराचारदिनाम् ॥ ९१ ॥ ते महेन्द्रोदयोद्यानं गत्वा संवेगकं ततः । महाबलमुने पार्श्वे जगृहुर्निरगारताम् ॥ ९२ ॥
सर्वारंभविरहिता विहरंति नित्यं निरंबरा विधियुक्तम् ।
क्षान्ता दान्ता मुक्ता निरपेक्षाः परमयोगिनो ध्यानरताः ॥ ९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org