________________
पद्मपुराणम् ।
३६५
दशाधिकशतं पर्व |
संचक्ष्य स्नेहनिघ्नं मां शोकतप्तां च मातरम् । न युक्तं वत्सका गंतुं सेव्यतां तावदीशिता ॥ ६९ ॥ स्नेहावासनचित्तास्ते संविमृश्य क्षणं धिया । भवभीतहृषीकाऽऽप्यसौख्यैकान्तपराङ्मुखाः ॥७०॥ उदारवीरतादत्तमहावष्टंभशालिनः । ऊचुः कुमारवृषभास्तच्चविन्यस्तचेतसः ।। ७१ ।। मातरः पितरोऽन्ये च संसारेऽनंतशी गताः । स्नेहबंधनमेतद्धि चारकं नारकं गृहम् ॥ ७२ ॥ पापस्य परमारंभं नानादुःखाभिवर्द्धनम् | गृहपंजरकं मूढाः सेवन्ते न प्रबोधिनः ॥ ७३ ॥ शारीरं मानसं दुःखं मा भूद्भूयोऽपि नो यथा । तथा सुनिश्चिताः कुर्मः किं वयं स्वस्य वैरिणः ७४ निर्दोषोऽहं न मे पापमस्तीत्यपि विचिन्तयन् । मलिनत्वं गृही याति शुक्लांशुकमिवस्थितम् ७५ उत्थायोत्थाय यन्नृणां गृहाश्रमनिवासिनाम् । पापे रतिस्ततस्त्यक्तो गृहिधर्मो महात्मभिः ७६ भुज्यतां तावदैश्वर्यमिति यत्प्रोक्तवानसि । तर्दधकारकूपे नः क्षिपसि ज्ञानवानपि ॥ ७७ ॥ पिर्वतं मृगकं यद्वद्वयाधो हंति तृषा जलम् । तथैव पुरुषं मृत्युर्हन्ति भोगेर तृप्तकम् ॥ ७८ ॥ विषयप्राप्तिसंसक्तमस्वतंत्रमिदं जगत् । कामैराशीविषैः साकं क्रीडत्यज्ञमनौषधम् ॥ ७९ ॥ विषयामिषसंसक्ता मग्ना गृहजलाशये । रुजा वडिशयोगेन नरमना व्रजत्यमुम् ॥ ८० ॥ अत एव नृलोकेशो जगत्रितयवंदितः । जगत्स्वकर्मणां वश्यं जगाद भगवानृषिः ॥ ८१ ॥
1
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org