________________
पद्मपुराणम् ।
दशाधिकशतं पर्व |
कथंचिदधुना प्राप्ता बोधिरस्माभिरुत्तमा । यया नौभूतया पारं प्रयास्यामो भवोदधेः ॥ ५६ ॥ आशीविषफणान् भीमान् कामान् शंकासुकानलम् । हेतून् परमदुःखस्य वांछामो दूरमुज्झितुम् ५७ नास्य माता पिता भ्राता बांधवाः सुहृदोऽपि वा । सहायाः कर्मतंत्रस्य परित्राणं शरीरिणः ॥ ५८ ॥ तात विद्मस्तथाऽस्मासु वात्सल्यमुपमोज्झितम् । मातॄणां च परं ह्येतद्वेधनं भववासिनाम् ।। ५९ ॥ किं तर्हि सुचिरं सौख्यं भवद्वात्सल्यसंभवम् । भुक्त्वाऽपि विरहोऽवश्यं प्राप्यः क्रकचदारुणः ६० अतृप्त एव भोगेषु जीवो दुर्मित्रविभ्रमः । इमं विमोक्ष्यते देहं किं प्राप्तं जायते तदा ॥ ६१ ॥ ततो लक्ष्मीधरोऽवोचत्परमस्नेहविह्वलः । आघ्राय मस्तके पुत्रानभीक्ष्य च पुनः पुनः ॥ ६२ ॥ एते कैलासशिखर प्रतिमा हेमरत्नजाः । प्रासादाः कनकस्तंभ सहस्रपरिशोभिताः ॥ ६३ ॥ नानाकुट्टिभभूभागाश्चारुनिर्व्यूहसंगताः । सुसेव्या विमलाः कान्ताः सर्वोपकरणान्विताः || ६४ || मलयाचलसद्द्वैधमारुताकृष्टषट्पदाः । स्नानादिविधिसंपत्तियोग्यनिर्मल भूमयः || ६५ ॥ शरच्चन्द्रप्रभा गौराः सुरस्त्रीसमयोषितः । गुणैः समाहिताः सर्वे कल्पप्रासादसंनिभाः ॥ ६६ ॥ वीणावेणुमृदंगादि संगीतकमनोहराः । जिनेन्द्रचरितासक्तकथात्यन्तपवित्रिताः ॥ ६७ ॥ उज्झत्वा सुखमेतेषु रमणीयेषु वत्सकाः । प्रतिपद्य कथं दीक्षां वत्स्यथान्तर्वनाचलम् ॥ ६८ ॥
३६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org