________________
पद्मपुराणम् ।
दशाधिकशतं पर्व। किमाभ्यां निवृते दुती लब्धा जैनेश्वरी द्युतिः । अबुधा इव यद्वयर्थं संशोचत पुनः पुनः ॥४३॥ रंभास्तंभसमानानां निःसाराणां हतात्मनाम् । कामानां वशगाः शोकं हास्यं नो कर्तुमर्हथ ।।४४॥ सर्वे शरीरिणः कर्मवशे वृत्तिमुपाश्रिताः । न तत्कुरुथ किं येन तत्कर्म परिणस्यति ॥ ४५ ॥ गहने भवकान्तारे प्रणष्टाः प्राणधारिणः । ईडशि यानि दुःखानि निरस्यत ततस्तकम् ॥ ४६ ॥ भ्रातरः कर्मभूरेषा जनकस्य प्रसादतः । द्यौरिहावधृतास्माभिर्मोहवेष्टितबुद्धिभिः ॥४७॥ अंकस्थेन पितुर्बाल्ये वाच्यमानं पुरा मया । पुस्तके श्रुतमत्यन्तं सुस्वरं वस्तु सुंदरम् ।। ४८ ॥ भवानां किल सर्वेषां दुर्लभो मानुषो भवः । प्राप्य तं स्वहितं यो न कुरुते स तु वंचितः ॥४९॥ ऐश्वर्य पात्रदानेन तपसा लभते दिवम् । ज्ञानेन च शिवं जीवो दुःखदां गतिमंहसा ॥ ५० ॥ पुनर्जन्म ध्रुवं ज्ञात्वा तपः कुर्मो न चेद्वयम् । अवाप्तव्या ततो भूयो दुर्गतिर्दुःखसंकटा ॥५१॥ एवं कुमारवीरास्ते प्रतिबोधमुपागताः । संसारसागराऽसातावेदनाऽऽवर्तभीतिगाः ॥५२॥ त्वरितं पितरं गत्वा प्रणम्य विनयस्थिताः । प्राहुर्मधुरमत्यर्थं रचिताञ्जलिकुड्मलाः ॥ ५३ ॥ तात नः शृणु विज्ञातं न विघ्नं कर्तुमर्हसि । दीक्षामुपेतुमिच्छामो व्रज तत्राऽनुकूलताम् ॥५४॥ विद्युदाकालिकं ह्येतज्जगत्सारविवर्जितम् । विलोक्योदीयतेऽस्माकमत्यन्तं परमं रुषम् ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org