________________
पद्मपुराणम् ।
३६२
दशाधिकशत पर्व । प्रशान्ति भ्रातरो यातास्तद्धातृभ्यां समं ननु । किमाभ्यां क्रियते कार्य कन्याभ्यामधुना समम् ॥ स्वभावाद्वनिता जिह्वा विशेषादन्यचेतसः । ततः सुहृदयस्तासामर्थे को विकृति भजेत् ॥ ३१ ॥ अपि निर्जितदेवीभ्या मेतभ्यां नास्ति कारणम् । अस्माकं चेत्प्रियं कर्तुं विवर्तध्वमितो मनः ३२ एवमष्टकुमाराणांवचनैः प्रग्रहैरपि । तुरंगचंचलं वृन्दं भ्रातृणां स्थापितं वशे ॥ ३३ ॥ वृतौ यत्तु सुकन्याभ्यां वैदेहीतनुसंभवौ । प्रदेशे तत्र संवृत्तस्तुमुलस्तूर्यनिस्वनः॥ ३४ ॥ वंशाः सकाहलाः शंखा भंभाभर्यः सझर्झराः । मनःश्रोत्रहरं नेदुर्याप्त दूरदिगंतराः ॥ ३५ ॥ स्वायंबरी समालोक्य विभूति लक्ष्मणात्मजाः । शुश्रुवुर्वीक्ष्य देवेंद्रीमिव क्षुद्रर्धयः सुराः ॥३६ ॥ नारायणस्य पुत्राः स्मो द्युतिकान्तिपरिच्छदाः । नवयौवनसंपन्नाः सुसहाया बलोत्कटाः ॥३७॥ गुणेन केन हीनाः स्म यदेकमपि नो जनम् । परित्यज्य वृतावेतौ कन्याभ्यां जानकीसुनौ । ३८॥ अथवा विस्मयः कोऽत्र किमपीदं जगद्गतम् । कमवैचित्र्ययोगेन विचित्रं यच्चराचरम् ॥ ३९ ॥ प्रागेव यदवाप्तव्यं येन यत्र यथा यतः। तत्परिप्राप्यतेऽवश्यं तेन तत्र तथा ततः ॥ ४० ॥ एवं लक्ष्मणपुत्राणां वृन्दे प्रारब्धशोचने । ऊचे रूपवतीपुत्रः प्रहस्य गतविस्मयः ॥४१॥ स्त्रीमात्रस्य कृते कस्मादेवं शोचत सन्नराः । चेष्टितादिति वो हास्यं परमं समजायत ॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org