________________
पद्मपुराणम्।
३६१
दशाधिकशतं पर्व।
अथोत्तमकुमायौँ ते निरीक्ष्य लवणांकुशौ । विद्धे मन्मथवाणेन निश्चलत्वमुपागते ॥ १७॥ महादृष्टयाऽनुरागेण बद्धयातिमनोहरः । अनंगलवणोऽग्राहि मंदाकिन्याग्रकन्यया ॥ १८ ॥ शशांकवक्त्रया चारुभाग्यया वरकन्यया । शशांकभाग्यया युक्तो जगृहे मदनाकुंशः ॥ १९ ॥ ततोहलहलारावस्तस्मिन् सैन्ये समुत्थितः । जयोत्कृष्टहरिस्वानसहितः परमाकुलः ॥ २० ॥ मन्ये व्यपाटयन् व्योम हरितो वा समन्ततः । उड्डीयमानैलॊकस्य मनोभिः परमत्रपैः ॥ २१ ॥ अहो सदृशसंबंधो दृष्टोऽस्माभिरयं परः । गृहीतो यत्सुकन्याभ्यामेता पद्माभनंदनौ ॥ २२॥ गंभीरं भुवनं ख्यातमुदारं लवणं गता । मंदाकिनी यदेतं हि नापूर्ण कृतमेतया ॥ २३ ॥ जेतुं सर्वजगत्कान्ति चन्द्रभाग्या समुद्यता । अकरोत्साधु यद्योग्यं मदनांकुशमग्रहीत् ॥ २४ ॥ इति तत्र विनिश्चेरुः सज्जनानां गिरः पराः । सतां हि साधुसंबंधात् चित्तमानन्दमीयते ॥२५॥ विशल्यादिमहादेवीनंदनाश्चारुचेतसः । अष्टौ कुमारवीरास्ते प्रख्याता वासयो यथा ॥ २६ ॥ शनैरर्द्धतृतीयैर्वा भ्रातृणां प्रीतिमानसः । युक्तास्तारागणान्तस्था ग्रहा इव विरेजिरे ॥ २७ ॥ बलवंतः समुद्वृत्तास्तेऽन्ये लक्ष्मणनंदनाः । क्रोधादुत्पतितुं शक्ता वैदेहीनंदनौ यतः ॥ २८ ॥ ततोऽष्टाभिः सुकन्याभिः तद्भातृबलमुद्धतम् । मंत्रैरिव शमं नीतं भुजंगमकुलं चलम् ॥ २९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org