________________
३५९
दशाधिकशतं पर्व ।
विधाय कालं विधिनाssरणाच्युते जगाम देवेंन्द्रपदं रणच्युतिः ।। १७० ।। अयं प्रभावो जिनशासनस्य यदिन्द्रतापीदृशपूर्ववृत्तैः ।
पद्मपुराणम् ।
को विस्मय वा त्रिदशेश्वरत्वे प्रयान्ति यन्मोक्षपुरं प्रयत्नात् ॥ १७१ ॥ मधोरिन्द्रस्य संभूतिरेषा ते कथिता मया । सीता यस्य प्रतिस्पर्धी संभूतः पाकशासनः || १७२ || अतः परं चित्तहरं मनीषिणां कुमारवीराष्टकचेष्टितं परम् ।
दामि पापस्य विनाशकारणं कुरु श्रुतौ श्रेणिक भूभृतां खे ।। १७३ ।। इति श्रीपद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते मधूपाख्यानं नाम नवोत्तरशतं पर्व ॥ १०९ ॥
अथ दशाधिकशतं पर्व |
कांचनस्थाननाथस्य तनये रूपगर्विते । द्वे कांचनरथस्याssस्तां ययोर्माता शतह्रदा ॥ १ ॥ तयोः स्वयंवरार्थेन समस्तान् भूनभश्वरान् । आह्वाययत्पिता प्रीत्या लेखवाहैर्महाजवैः ||२॥ दत्तो विज्ञापितो लेख विनीतापतये तथा । स्वयंवरविधानं मे दुहितुश्चिन्त्यतामिति ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org