________________
पद्मपुराणम् ।
३५८
वोत्तरशतं पर्व
महान् यद्येष दोषोऽस्ति परदारैषिणां नृणाम् । एतं निग्रहमुर्वीश न करोषि किमात्मनः || १५८ || प्रथमस्तु भवानेव परदाराभिगामिनाम् । कोऽन्येषां क्रियते दोषो यथा राजा तथा प्रजाः ॥ १५९ ॥ स्वयमेव नृपो यत्र नृशंसः पारदारिकः । तत्र किं व्यवहारेण कारणं स्वस्थतां व्रज ॥ १६० ॥ येन बीजाः प्ररोहति जगतो यच्च जीवनम् । जातस्ततो जलाद्वह्निः किमिहापरमुच्यताम् ॥ १६१ ॥ उपलभ्येदृशं वाक्यं प्रतिरुद्धोऽभवन्मधुः । एवमेवेति तां देवीं पुनः पुनरभाषत ॥ १६२ ॥ तथाप्यैश्वर्यपाशेन वेष्टितो दुःसुखोदधेः । भोगसंवर्त्तनी येन कर्मणा नावमुच्यते ॥ १६३ ॥ द्रासि ते काले सुप्रबोधसुखान्विते । सिंहपादाह्वचः साधुः प्राप्तोऽयोध्यां महागुणः ॥ १६४ ॥ सहस्राम्रवने कान्ते मुनीन्द्रं समवस्थितम् । श्रुत्वा मधुः समायासीत्सपत्नीकः सहानुगः ॥ १६५ ॥ गुरुं प्रणम्य विधिना संविश्य धरणीतले । धर्म संश्रुत्य जैनेन्द्रं भोगेभ्यो विरतोऽभवत् ।। १६६ || राजपुत्री महागोत्रा रूपेणाप्रतिमा भुवि । अत्याक्षीदधिराज्यं च ज्ञात्वा दुर्गतिवेदनाम् ॥१६७॥ विदित्वैश्वर्यमानाद्यं मुनीभूतः स कैटभः । महाचर्या समाक्लिष्टो विजहार महीं मधुः ॥ १६८ ॥ ररक्ष माधवीं क्षोणीं राज्यं च कुलवर्द्धनः । सर्वस्य नयनानंदः स्वजनस्य परस्य च ।। १६९ ।। मधुः सुघोरं परमं तपश्चरन्महामनाः वर्षशतानि भूरिशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org