________________
पद्मपुराणम् ।
नवोत्तरशतं पर्व |
महादेव्यभिषेकेण प्रापिता चाभिषेचनम् । आरूढा सर्वदेवीनामुपरिस्थितमास्पदम् || १४५ ॥ श्रियेव स तया साकं निमग्नः सुखसागरे । स्वं सुरेन्द्रसमं मेने भोगांधीकृतमानसः ।। १४६ ।। वीरसेननृपः सोऽयं विज्ञाय विहृतां प्रियाम् । उन्मत्तत्वं परिप्राप्तो रतिं कापि न विन्दते ॥ १४७॥ मंडवस्याभवच्छिष्यस्तापसोऽसौ जलप्रियः । मूढं विस्मापयं लोकं तपः पंचाग्निकं श्रितः ॥ १४८ ॥ अन्यदा मधुराजेन्द्रो धर्मासनमुपागतः । करोति मंत्रिभिः सार्द्धं व्यवहारविचारणम् ॥ १४९ ॥ भूपालाचारसंपन्नं सत्यं संमदसंगतम् । प्रविष्टोऽतः पुरं धीरस्तपनेऽस्ताभिलाषुके ।। १५० ।। खिन्ना तं प्राह चंद्राभा किमित्यद्य चिरायितम् । वयं क्षुदर्दिता नाथ दुःखं वेलामिमां स्थिताः ॥ सोऽवोचद्व्यवहारोऽयमरालः पारदारिकः । छेत्तुं न शक्यते यस्मात्तस्मादद्य चिरायितम् ॥ १५२ ॥ विहस्योवाच चंद्राभा को दोषोऽन्यप्रियारतौ । परमार्या प्रिया यस्य तं पूजय यथेप्सितम् १५३ तस्यास्तद्वचनं श्रुत्वा क्रुद्धो मधुविभुर्जगौ । ये पारदारिका दुष्टा निग्राह्यास्ते न संशयः ॥ १५४ ॥ दंड्याः पंचकदंडेन निर्वास्याः पुरुषाधमाः । स्पृशन्तोऽप्यवलामन्यां भाषयन्तोऽपि दुर्मताः ।। १५५ ।। सन्मूढाः परदारेषु ये पापादनवर्त्तिनः । अधः प्रयतनं येषां ते पूज्याः कथमीदृशाः ।। १५६ ।। देवी पुनरुवाचेदं सहसा कमलेक्षणा । अहो धर्मपरो जातु भवान् भूपालनोद्यतः ॥ १५७ ॥
1
Jain Education International
३५७
For Private & Personal Use Only
www.jainelibrary.org