________________
पद्मपुराणम् ।
३५४
नवोत्तरशतं पर्व ।
अनयाऽवस्थया मुक्तौ जीविष्यामो वयं यदा । तदा संप्रतिपत्स्यामो दर्शनं मुनिसत्तमम् ॥१०६॥ अत्रांतरे परिप्राप्तः सोमदेवः ससंभ्रमः । भार्ययाऽग्निलया साकं प्रसादयति तं मुनिम् ॥१०७॥ भूयोभूयः प्रणामेन बहुभिश्च प्रियोदितैः । दंपती चक्रतुश्वाटुं पादमर्दनतत्परौ ॥ १०८ ॥ जीवतां देव दुःपुत्रावेतौ नः कोपमुत्सृज । संप्रेष्य बांधवा नाथ वयमाज्ञाकरास्तव ॥ १०९॥ संयतो वक्ति कः कोपः साधूनां यहवीष्यदः । वयं सर्वस्य सदयाः सममित्रारिबांधवाः ॥११०।। प्राह यक्षोऽतिरक्ताक्षो वृहद्भीरनिस्वनः । माऽभ्याख्यानं गुरोरस्य जनमध्ये प्रदातकम् ॥१११॥ साधुन्वीक्ष्य जुगुप्सन्ते सद्योऽनर्थ प्रयांति ते । न पश्यन्त्यात्मनो दौष्टयं दोषं कुर्वन्ति साधुषु ११२ यथाऽऽदर्शतले कश्चिदात्मानमवलोकयन् । यादृशं कुरुते वकं तादृशं पश्यति ध्रुवम् ॥ ११३ ॥ तद्वत्साधु समालोक्य प्रस्थानादिक्रियोद्यतः । यादृशं कुरुते भावं तादृक्षं लभते फलम् ॥११४॥ प्ररोदनं प्रहासेन कलहं परुषोक्तितः । वधेन मरणं प्रोक्तं विद्वेषेण च पातकम् ।। ११५ ।। इति साधोनियुक्तेन परिनियेन वस्तुना । फलेन तादृशेनैव कर्ता योगमुपाश्नुते ॥ ११६ ॥ एतौ स्वोपचितैर्दोषः प्रेर्यमाणौ स्वकर्मभिः । तव पुत्रौ मया विप्र स्तंभितौ न हि साधुना ॥११७॥ वेदाभिमाननिर्दग्धावेतौ छावनीपकौ । म्रियेतां धिक्क्रयाचारौ संयतस्यातितायिनी ॥ ११८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org