________________
पद्मपुराणम्।
३५५
नवोत्तरशतं पर्व ।
इति जल्पन्तमत्युग्रं यक्ष प्रतिघभीषणम् । प्रसादयति साधुं च विप्रः प्रांजलिमस्तकः ॥ ११९ ॥ उर्द्धबाहुः परिक्रोशनिंदयन्ताडयन्नुरः । सममनिलया विप्रो विप्रकीर्णात्मकोऽभवत् ॥ १२० ॥ गुरुराह ततः कांत हे यक्ष कमलेक्षण । मृष्यतामनयोर्दोषो मोहप्रजडचित्तयोः ॥ १२१ ॥ जिनशासनवात्सल्यं कृतं सुकृतिना त्वया । नैतं प्राणिवधं भद्रं मदर्थ कर्तुमर्हसि ॥ १२२ ॥ यथाऽऽज्ञापयसीत्युक्त्वा गुह्यकेन विसर्जितौ । आश्वस्योपसृतौ भक्त्या पादमूलं गुरोस्ततः १२३ नम्रौ प्रदक्षिणां कृत्वा शिरःस्थकरकुड्मलौ । साधवीयां महाचर्या ग्रहीतुं शक्तिवर्जितौ ॥१२४ ॥ अणुव्रतानि गृहीतां सम्यग्दर्शनभूषितौ । अमूढौ श्रावको जातौ गृहधर्मसुखे रतौ ॥ १२५ ॥ पितरावनयोः सम्यक्श्रद्धया परिकीर्तितौ । कालं गतौ विना धर्मागमतो भवसागरे ॥ १२६ ॥ तौ तु सत्यक्तसंदेहौ जिनशासनभावितौ । हिंसाद्यं लौकिकं कार्य वर्जयन्तौ विषं यथा ॥१२७॥ कालं कृत्वा समुत्पन्नौ सौधर्मे विबुधोत्तमौ । सर्वेन्द्रियमनोह्लादं यत्र दिव्यं महत्सुखम् ॥१२८॥ एत्यायोध्यां समुद्रस्य धारण्याः कुक्षिसंभवौ । नंदनौ नयनानंदो श्रेष्ठिनस्तौ बभूवतुः ॥ १२९ ।। पूर्णकांचनभद्राख्यौ भ्रातरावेव तौ सुखम् । पुनः श्रावकधर्मेण गतौ सौधर्मदेवताम् ॥ १३० ॥ अयोध्यानगरीन्द्रस्य हेमनाभस्य भामिनी । नाम्नाऽमरावती तस्यां समुत्पन्नौ दिवश्युतौ ॥१३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org