________________
पद्मपुराणम् ।
३५३
नवोत्तरशतं पर्व। निःसंगः संघमुत्सृज्य वनैकान्तेऽतिगहरे । करकैः संकटेऽत्यन्तं विवित्रचितिकाचिते ॥ ९३ ॥ क्रव्यश्वापदनादाव्ये पिशाचभुजगाकुले । सूचीभेदतमश्छन्ने महावीभत्सदर्शने ॥ ९४ ॥ एवंविधे श्मशानेऽसौ निर्जन्तुनि शिलातले । पापाभ्यामीक्षितस्ताभ्यां प्रतिमास्थानमास्थितः ९५ आकृष्टखड़हस्तौ च क्रुद्धौ जगदतुः समम् । जीवं रक्षतु ते लोकः क यासि श्रमणाधुना ॥ ९६ ॥ पृथिव्यां ब्राह्मणाः श्रेष्ठा वयं प्रत्यक्षदेवताः । निर्लज्जस्त्वं महादोषो जंबुका इति भाषसे ॥९७॥ ततोऽत्यन्तप्रचंडौ तौ दुष्टौ रक्तकलोचनौ । जाल्मौ कृपाविनिर्मुक्तौ सुयक्षेण निरीक्षितौ ॥९८ ॥ सुमनाश्चितयामास पश्य निर्दोषमीदृशम् । हंतुमभ्युद्यतौ साधु मुक्तांगं ध्यानतत्परम् ॥ ९९ ॥ ततः संस्थानमास्थाय तौ चोदगिरतामसी । यक्षेण च तदग्रेण स्तंभितौ निश्चलौ स्थितौ १०० विकर्म कर्तुमिच्छन्तावुपसर्ग महामुनेः । प्रतीहाराविव क्रूरौ तस्थतुः पार्श्वयोरिमौ ॥ १०१॥ ततः सुविमले काले जाते जाताजबांधवे । संहृत्य सन्मुनिर्योगं निःसृत्यैकांततः स्थितः ॥१०२॥ संगश्चतुर्विधः सर्वः शालिग्रामजनस्तथा । प्राप्तः परमयोगीशमिति विस्मयवान् जगौ ॥१०३ ॥ कावेतावीदृशौ पापौ धिक्कष्टं कर्तुमीहितौ । अग्निवायुदुराचारावेतौ तावाततायिनौ ॥ १०४ ॥ तौ चाचिंतयतामुच्चैः प्रभावोऽयं महामुनेः । आवां येन बलोवृत्तौ स्तंभितौ स्थावरीकृतौ १०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org