________________
Jain Education International
पद्मपुराणम् ।
३५२
महाव्रतशिखाटोपाः क्षांतियज्ञोपवीतिनः । ध्यानाग्निहोत्रिणः शांता मुक्तिसाधनतत्पराः ॥ ८१ ॥ सर्वारंभप्रवृत्ता ये नित्यमब्रह्मचारिणः । द्विजाः स्म इति भाषते क्रियया न पुनर्द्विजाः ॥ ८२ ॥ यथा केचिन्नरा लोके सिंहदेवाग्निनामकाः । तथामी विरतेभ्रष्टाः ब्राह्मणा नामधारकाः ||८३ || अमी सुश्रमणा धन्या ब्राह्मणाः परमार्थतः । ऋषयः संयता धीराः क्षांता दांता जितेंद्रियाः ८४ भदंतास्त्यक्तसंदेहा भगवंतः सतापसाः । मुनयो यतयो वीरा लोकोत्तरगुणस्थिताः ।। ८५ ।। परिव्रजति ये मुक्ति भवहेतौ परिग्रहे । ते परिव्राजका ज्ञेया निर्ग्रथा एव निस्तमाः || ८६ ॥ तपसा क्षपयंति स्वं क्षीणरागाः क्षमान्विताः । क्षिण्वंति च यतः पापं क्षपणास्तेन कीर्त्तिताः ॥८७॥ यमिनो वीतरागाश्च निर्मुक्तांगा निरंबराः । योगिनो ध्यानिनों वंद्या ज्ञानिनो निःस्पृहा बुधाः ८८ निर्वाणं साधयंतीति साधवः परिकीर्त्तिताः । आचार्या यत्सदाचारं चरंत्याचारयति च ॥ ८९ ॥ अनगारगुणोपेता भिक्षवः शुद्धभिक्षया । श्रमणाः सितकर्माणः परमश्रमवर्त्तिनः ॥ ९० ॥ इति साधुस्तुतं श्रुत्वा तथा निंदनमात्मनः । रहः स्थितौ विलक्षौ च विमानौ विगतप्रभो ॥ ९१ ॥ गते च सवितर्यस्तं प्रकाशनसुदुःखितौ । अन्विष्यन्तौ गतौ स्थानं यत्रासौ भगवान् स्थितः ९२
नवोत्तरशतं पर्व
For Private & Personal Use Only
1
www.jainelibrary.org