________________
पद्मपुराणम् ।
३५१
नवोत्तरशतं पर्व ।
एवं पिताऽपि तोकत्वमेति तोकश्च तातताम् । माता पत्नीत्वमायाति पत्नी चायाति मातृताम् ॥ उद्घाटनघटीयंत्रसदृशेऽस्मिन् भवात्मनि । उपर्युपरितां यांति जीवाः कर्मवशं गताः ॥ ६९ ॥ इति ज्ञात्वा भवावस्थां नितान्तं वत्स निंदिताम् । अधुना मूकतां मुंच कुरु वाचां क्रियां सतीम् ॥ इत्युक्तः परमं हृष्ट उत्थाय विगतज्वरः । उद्भूतघनरोमांच प्रोत्फुल्लनयनाननः ॥ ७१ ॥ गृहीत इव भूतेन परिभ्रम्य प्रदक्षिणाम् । निपपातोत्तमांगेन छिन्नमूलतरुर्यथा ॥ ७२ ॥ उवाच विस्मितश्चाच्चैस्त्वं सर्वज्ञपराक्रमः । इहस्थसर्वलोकस्य सकलां पश्यसि स्थितिम् ॥ ७३ ॥ संसारसागरे घोरे कष्टमेवं निमज्जतः । सत्त्वानुकंपया बोधिस्त्वया मे नाथ दर्शिता ॥ ७४ ॥ मनोगतं मम ज्ञातं भवता दिव्यबुद्धिना । इत्युक्त्वा जगृहे दीक्षां सास्रान् संत्यज्य बांधवान् ७५ तस्य प्रामरकस्यैतच्छ्रुत्वोपाख्यानमीदृशम् । संवृत्ता बहवो लोके श्रमणाः श्रावकास्तथा || ७६ ॥ गत्वा च ती दृष्टे सर्वलोकेन तद्ग्रहे । ततः कलकलो जातो विस्मयश्च समंततः ॥ ७७ ॥ अथोपहसितौ राजंस्तौ जनेन द्विजातिकौ । इमौ तौ पशुमांसादौ जंबुकौ द्विजतां गतौ ॥७८॥ ताभ्यां ब्रह्मतावादविमूढाभ्यां सुखार्थिनी । प्रजेयं मुषिता सर्वा सक्ताभ्यां पशुहिंसने ॥ ७९ ॥ अमी तपोधनाः शुद्धाः श्रमणा ब्रह्मणोधिपाः । ब्राह्मणा इति विख्याता हिंसामुक्तत्रतश्रिताः ८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org